________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७
कालसर्गः (२६) नन्दन:, (२७) विजयः, (२८) जयः, (२९) मन्मथः, (३०) दुर्मुखः, (३१) हेमलम्ब: (म्बी), (३२) विलम्ब: (म्बी), (३३) विकारी (इन्), (३४) शार्वरी (इन्), (३५) प्लव:, (३६) शुभकृत् (द्), (३७) शोभन:, (३८) क्रोधी (इन्), (३९) विश्वावसुः, (४०) पराभव:, (४१) प्लवङ्गः, (४२) कीलकः, (४३) सौम्यः, (४४) साधारण:, (४५) विरोधकृत् (द्), (४६) परिधावी (इन्), (४७) प्रमादी (इन्), (४८) आनन्दः, (४९) राक्षस: (५०) अनल:, (५१) पिङ्गलः, (५२) कालयुक्तः, (५३) सिद्धार्थी (इन्), (५४) रौद्रः, (५५) दुर्मतिः, (५६) दुन्दुभिः, (५७) रुधिरोद्धारी (इन्), (५८) रक्ताक्षी (इन्), (५९) क्रोधनः, (६०) क्षय-श्चैते प्रभवादयः षष्टिसम्वत्सरा: स्युः। ___ पञ्चवर्षीययुगभेदाः-(१) संवत्सरः, (२) परिवत्सरः, (३) इडावत्सरः, (४) अनुवत्सरः, (५) उद्वत्सरश्चैते पञ्चवर्षीययुगभेदाः स्युः। ।
द्वादशयुगस्वामिनामानि–(१) विष्णुः, (२) जीव:, (३) शक्रः, (४) अग्नि:, (५) त्वष्टा (ष्ट), (६) अहिर्बुध्न्यः, (७) पितरः (तृ), (८) विश्वेदेवाः, (९) सोमः, (१०) इन्द्राग्नी, (११) नासत्यौ, (१२) भगश्चैते द्वादशयुगस्वामिनः स्युः।।
पैत्रपर्यायः-पैत्रः (पुं०), मानुषेण मासेनैक: पितृणामहोरात्रात्मकः कालः। दैवतप०-दैवत: (पुं०), मानुषेण वर्षेणैको देवानामहोरात्रात्मकः कालः। दिव्यवर्षप०-दिव्यवर्षम् (न०),देवतानां षष्ट्यधिकशतत्रयाहोरात्रात्मकः कालः। दिव्ययुगपर्यायः-दिव्ययुग़म् (न०) दिव्यैादशसहस्रवर्मानुषचतुर्युगं स्यात्। दैवयुगप०-दैवयुगम् (न०) मानुषाणां कृतादियुगचतुष्टयात्मक: काल:।
युगभेदाः-(१) सत्यम्, (२) त्रेता, (३) द्वापरः, (४) कलिश्चैते युगस्य चत्वारो भेदा: स्युः।
सत्यपर्यायाः-कृतम्, सत्यम्, सत्ययुगम्, सौम्यम् चैतानि क्लीबलिङ्गानि स्युः। त्रेताप०-अग्नायी, त्रेता, विसर्जिका चैता: स्त्रीलिङ्गाः स्युः। द्वापरप०-आग्नेयः, द्वापरः, यज्ञियश्चैते पुंल्लिङ्गाः स्युः।
कलिप०-कर्मयुगम् (न०), कलि: (पु०), कलियुगम् (न०), झर्झरकः, पुष्यः (उभौ पुंसि)।
कल्पप०-कल्पौ (पं०वि०), ये द्वे दैवे युगसहस्र तौ नणां कल्पौ स्थितिप्रलयकालावित्यर्थः। ब्राह्मप०-ब्राह्मः, (पुं०) दैवे द्वे युगसहस्रेण एको ब्रह्मणोऽहोरात्रात्मकः कालः।
मन्वन्तरप०--मन्वन्तरम् (न०), दिव्यानां युगानां या एकसप्ततिरेकाधिका सप्ततिः तन्मन्वन्तरम्।
तदक्तममरेणमन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः।' इति अ० ४।२२
मयेनापि'युगानां सप्ततिः सैका मन्वन्तरमिहोच्यते।' इति सू०सि०१/१८
मनुभेदाः-(१) स्वायम्भुवः, (२) स्वारोचिषः, (३) उत्तमः (औत्तमिः), (४) तामस: (तामसिः), (५) रैवतः, (६) चाक्षुषः, (७) वैवस्वतः, (८) सावर्णिः, (९) दक्षसावर्णिः,
For Private and Personal Use Only