________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
ज्योतिर्विज्ञानशब्दकोषः (१०) ब्रह्मसावर्णिः, (११) धर्मसावर्णिः, (१२) रुद्रसावर्णिः, (१३) रोच्यः (देवसावर्णिः), (१४) भौत्यः (इन्द्रसावर्णिः) इत्येते चतुर्दश मनव: स्युः।
प्रलयपर्याया:-कल्पः, कल्पान्त: (कल्पसंहारः), क्षयः, जगत्क्षयः, जिहानकः, दैनन्दिनः, परान्तः, परिवर्तः, परीवर्त:, भूतप्लव:, महाप्रलय:, महासुप्तिः, युगान्त: (युगसंहारः), लोकशेष:, संवर्तः, संहारः, समसुप्तिः, सर्वनाशनः ।
प्रतिसर्गप०-प्रतिसञ्चारः, प्रतिसर्गः, प्रलयः, संहारः।
कालान्यभेदाः-(१) पूर्वाह्नः, (२) मध्याह्नः, (३) सायाह्नः, (४) पूर्वरात्रः, (५) मध्यरात्रः, (६) अन्त्यरात्रः। (एते कालस्य षड्भेदाः स्युः।
कालान्यप्रभेदाः-(१) भूतम्, (२) वर्तमानम्, (३) भविष्यत्, इत्येते कालस्य त्रयः प्रभेदाः स्युः।
- भूतकालपर्यायाः-अतीतकाल:, गतकालः, भूतकाल:, यातकालः, वृत्तकालः, व्यतीतकाल:।
वर्तमानकालपर्यायाः-अतीतानागतभिन्नकालः, अद्यतनम्, अधुनातनम्, इदानीन्तनम्, वर्तमानः, वर्तमानकाल:। (आरब्धात्परिसमाप्तिर्वर्तमानः कालः।)
भविष्यत्कालप०-अनागतम्, उदर्कः, भविष्यम्, भविष्यत्, भावी (इन्), श्वस्तनम्। सद्यः फलपर्यायाः-सांदृष्टिकम्, सांसृष्टिकम्, यत्सद्यः फलं तत्। वर्तमानकालफलपर्यायाः-तत्कालः, तदात्वम्, तात्कालिकम्, वर्तमानकालफलम्।
आगामिकालफलपर्यायाः-आगामिकालफलम, आयति: (शुभोत्तर: काल:), उदर्क: (उत्तरं भाविफलं स:), एष्यत्कालीनफलम्, भाविकर्मफलम्, भाविफलम्।
उषःकालपर्यायाः-अहर्मुखम्, उष: (अस्) (न०), प्रत्यूष: (पुं०) शेषपर्यायास्तु प्रभाते
द्रष्टव्या :।
अस्य निर्णयो यथा— 'पञ्चपञ्च उष:कालः' इति देवीभागवतम्। पञ्चपञ्चाशद्धटिकोत्तरमुषः कालः। अथवा-होराद्वयात्मकराविशेषकालः।।
ब्राह्ममुहूर्तपर्याया:-ब्राह्ममुहूर्त्तः, स यथा-अरुणोदयकालस्य प्रथमदण्डद्वयात्मकः कालः। मदनपारिजाते तु–'शेषार्द्धप्रहरो ब्राह्मो मुहूर्तः। इति। तत्रापि–'सूर्योदयात्प्रागर्द्धप्रहरे यौ द्वौ मुहूर्ता। तत्राद्यो ब्राह्मः, द्वितीयो रौद्रः।
यल्लक्ष्यम्-'ब्राह्मे मुहूर्ते उत्तिष्ठेत् ' इति वाग्भटः। 'ब्राह्म मुहूर्ते किल तस्य देवी' इति रघु: ५/३६
अरुणोदयकालपर्यायाः-अरुणोदयकालः, ब्राह्ममुहूर्तः। सूर्योदयात्पूर्वं मुहूर्तद्वयात्मकः
काल:।
स यथा-'रजनीशेषयामस्य शेषार्द्धमरुणोदयः।' इति। अपि च—'चतस्रो घटिका: प्रातरुणोदय उच्यते' इति।
For Private and Personal Use Only