________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शब्दव्युत्पत्तिसर्ग: सर्ग:
पुनरपि साम्प्रतं व्युत्पत्त्यन्तरमाहुः..ऽथ विरोध्यर्थम् ।
-
Acharya Shri Kailassagarsuri Gyanmandir
गुणशब्दोऽत्र नजदिरितरोत्तरो निगदति यथा कृष्णः । ५० ।। सितेतरः स्यादसितः इति ।
व्याख्या—अथेति । अथ शब्दोऽनन्तरवाची । गुणशब्दो गुणवाचिशब्दो नञादिरितरोत्तरो नपूर्व इतर शब्दोत्तरश्च विरोध्यर्थं विरोधिनमर्थं निगदत्यभिधत्त इत्यर्थः । यथा -- असित: सितेतरः, कृष्णः श्यामः। एवं अकृशः कृशेतरश्च स्थूल इत्यादिः ।
पदे
पूर्वे ।
अथ सम्प्रति व्युत्पत्त्यन्तरमाहुः.. पानीयनिध्यादिषु तथोत्तरे तु वाडवोषर्बुधादिषु भूभृदाद्येषु ॥ ५१ ॥ येsपि हि पर्यायपरिवर्त्तनम् इति ।
व्याख्या–पानीयेति । पानीयनिध्यादिषु शब्देषु पूर्वस्मिन्नेवपदे पर्यायस्य परावृत्तिर्भवति । यथा - पानीयनिधिः, जलनिधि:, तोयनिधिः, वारिनिधिः, वार्द्धिः । आदिशब्दग्रहणात् अम्बुदः, वारिदः, पयोदः, सलिलदः, कन्दः, इत्यादि । वाडवोषर्बुधादिषु वडवाग्निप्रभृतिषु शब्देषु उत्तरस्मिन्नेव पदे पर्यायपरावृत्तिः
स्यात् । यथा - वडवकृशानुः, वडवपावकः, वडवधनञ्जयः । आदि शब्दात् अम्बुजम्, पङ्कजम्, पङ्केरुहम्, सरोजम्, सरोरुहम्, सरोजन्म, इत्यादि । भूभृदाद्येषु शब्देषु द्वयेऽपि पूर्वत्र उत्तरत्र च पदे पर्यायस्य परावृत्ति: (परिवर्त्तनं) भवति । यथा - भूभृत् क्षितिभृत्, धराधरः, धरणीधरः । आद्यशब्दात् गीर्वाणनाथः, वृन्दारकराजः, लेखर्षभः, इत्यादयः। अथ सम्प्रति परावृत्तिसह-यौगिकशब्दानाहु:--- . एवं परावृत्तिसहाश्च ।
योगाः स्युरिति यौगिकाः । इति ।
व्याख्या - एवमिति । एवमिति पूर्वत्र उतरत्र उभयत्र च पदे परावृत्तिं पर्यायपरिवर्त्तनं सहन्ते क्षमन्ते परावृत्तिसहाः पानीयनिध्यादयः शब्दाः । योगात् अन्वयाद् भवेयुः इति यौगिकाः । त्र्यादिषु यौगिकेषु शब्देषु पूर्व- मध्यो- त्तर- पदानां योजना क्रमेण कर्तव्या यथा – (३) कमल + कानन + नायकः = कमलकानननायकः 'सूर्य' । कुमुदिनी + विपिन + विकासी = कुमुदिनीविपिनविकासी चन्द्रः । (४) चण्डी + ईश + चूडा मणिः = चण्डीशचूडामणिः 'चन्द्रः ' । अत्रि + नयन + समुत्थ+ ज्योतिः = अत्रिनयनसमुत्थज्योतिः 'चन्द्रः'। कामिनी + वदन + सौरभ + चौर: कामिनीवदनसौरभचौर: 'चन्द्र:' । निर्जर + नायक + पूजित + पादः निर्जरनायकपूजितपादः ‘बृहस्पति:' । (५) अदिति + दारक + देव + वन्दित + चरण: = अदितिदारकदेव वन्दितचरणः बृहस्पतिः । इति ।
अथेदानीं मिश्रशब्दानाहु:
२७१
.. मिश्रास्त्विह दशरथोऽन्तकश्चापि गीर्वाणसन्निभाः इति ।
परावृत्त्यसहाः॥५२॥
For Private and Personal Use Only