________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७०
ज्योतिर्विज्ञानशब्दकोषः व्याख्या-दृश्यत इति। विवक्षानिबन्धनो हि सम्बन्धः, तत एकस्मादपि वृषादेः सम्बन्धिपदात् परे सम्बन्धान्तरनिबन्धना वाहनादय: शब्दा यथोचितं प्रयुज्यते।
वाह्यवाहकभावसम्बन्धे विवक्षायां वृषस्य वाह्यत्वे 'वृषवाहनः' 'शिव:'। इति भवति। एवं सत्त्वे तु निजेशसम्बन्धविवक्षायां 'वृषपतिः' 'शिवः' इति भवति। तथा धार्यत्वे धार्यधारकभावसम्बन्धविवक्षायां च 'वृषलाञ्छन:' शिवः। इत्यपि।
"धार्यत्वेऽशो, स्तथांशुमाल्यंशुपतिरंशुमानपि सत्त्वे।
बध्यत्वेऽहेरह्यरि-रहिभुङ् मयूरा भोज्यत्वे।।१७।। व्याख्या-धार्यत्व इति। तथाऽशोर्धार्यत्वे अंशमाली' सूर्यः। इति भवति। सत्त्वे स्वस्वामिभावसम्बन्धविवक्षायां 'अंशुपतिः, अंशुमान्, ‘सूर्यः'। इत्यपि। तथा वध्यत्वे वध्यवधकभावसम्बन्धविवक्षायामहे: सर्पस्य अरिः शत्रुर्मयूरः। एवं भक्ष्यत्वे भक्ष्यभक्षकभावसम्बन्धविवक्षायामहिभुक् ‘मयूरः'। इत्यपि भवति।
अथ सम्प्रतीह सम्बन्धनिबन्यानां व्युत्पत्तिमुक्त्वा
व्युत्पत्त्यन्तरमाहःव्यक्तैरबैर्व्यक्तेर्जातिशब्दो वाचको विज्ञेयः। वाताप्यरातिपूता-ऽऽशा याम्याशोच्यते धीरैः।।४८।। पूता सप्तर्षिभिरिति कौबेरी स्याद्' इति।
व्याख्या व्यक्तैरिति। पूतेति च। अद्वेर्विशेषणैर्व्यक्तैः स्पष्टैर्जात्यभिधायकोऽपिशब्दो व्यक्तेर्वाचको विज्ञेयः। व्यक्ते मतां प्राप्नोतीत्यर्थः। ____ अत्रोदाहरणं प्रदर्शयति-वातापि: असुरविशेषस्तस्यारातिः शत्रु: अगस्ति: ऋषिविशेषस्तेन पूता स्वासनया पवित्रिता इति व्यक्तमकं तेनाङ्कित 'आशा' इति जातिशब्दो याम्याशाया व्यक्तेरभिधायी धीरैर्विद्वद्भिरुच्यते कथ्यते। इति सप्तर्षिभिः कश्यपादिभिः पूता पवित्रिता आशा कौबेरी उत्तरा स्यात्। इति।
अथेदानी व्युत्पत्त्यनतरमाहुः.......अयुग्विषमशब्दौ। त्रि-पञ्च-सप्तादीनां-वाचकौ संयाजयेत् क्रमादत्र।।४९।।
त्रिलोचन-पञ्चासायक-सप्तपर्णादिष्व-इति। व्याख्या-अयुगिति। त्रि-पञ्च-सप्तादि-स्थाने अयुग्-विषमशब्दौ त्रिलोचनादिपदेषु योजितव्यौ। यथा-त्रिलोचनः, अयुग्लोचन:, विषमलोचनश्च 'शिवः'। पञ्चसायकः, अयुक्सायक:, विषमसायकश्च ‘कामदेव:'। सप्तपर्णः, अयुकपर्णः, विषमपर्णश्च वृक्षविशेष:'। सांतवण इति प्रसिद्धः। आदिशब्दात् नवशक्तिः, अयुक्शक्तिः, विषमशक्तिश्च 'महादेव:'। एवं त्र्यम्बकपञ्चेषुसप्तच्छदादिष्वपि।
For Private and Personal Use Only