________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२
ज्योतिर्विज्ञानशब्दकोषः व्याख्या–मिश्रा इति। इह शब्दभेदे दशरथादयः शब्दाः पूर्वत्र उत्तरत्र च पदे पर्यायस्य परावृत्तिं परिवर्तनमसहमाना अक्षममाना मिश्रा योगयुक्ता रूढिमन्तश्च ज्ञातव्याः। सन्निभ आद्यर्थः।
अथाधुना पारिभाषिकशब्दानाहु:
.................तथा। क्रियश्च तावुरि-र्जित्मः कुलीरो लेय इत्यपि।।५३।। पाथेन-जूक-कौाद्या दुश्चिक्यं हिबुकोऽप्यथ।
डिम्ब-डिम्ब-नदीपूर्वाः संस्मृताः पारिभाषिकाः। व्याख्या-तथेति। पाथोनेति च। तथा तद्वत्,क्रियः, ताबुरिः, जित्म:, कुलीरः, लेयः, पाथोनः, जूकः, कौमे इत्याद्या राशौ। दुश्चिक्यं हिबुक इत्याद्या भावे। तथा डिम्बडित्थ-नदीपूर्वा अन्यत्र पारिभाषिका आधुनिकसङ्केतेनार्थ बोधकपदा: संस्मृता ज्ञेयाः, बुधैरिति शेषः। क्वचित्तु तात्पर्यग्राहकवशात्केवलयोगेन केवलरूढ्याचार्थद्वयबोधको यौगिकरूढ: शब्दोऽपि दृश्यते। यथाअश्वगन्धादिः। इति। ॥ इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना
डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे शब्दव्युत्पत्तिसर्गः नवदशः ॥१९॥
For Private and Personal Use Only