________________
Shri Mahavir Jain Aradhana Kendra
२६८
www.kobatirth.org
ज्योतिर्विज्ञानशब्दकोषः
अथेदानीं मित्रसम्बन्धमाहुः -
Acharya Shri Kailassagarsuri Gyanmandir
मित्रान्मित्रनिभाः' इति ।
अस्य व्याख्या - मित्रादिति । मित्रं सखा तद्वाचकाच्छब्दादुत्तरे सखिसमानार्थास्तद्वतां सख्यवतां नाम आहुः। यथा— रामस्य सखा रामसखः 'सुग्रीवः । शिवस्य सखा शिवसखः 'कुबेर: ' चैत्रस्य मधोः वसन्तस्य वा सखा चैत्रसखः, मधुसखः, वसन्तसखः कामः एवं दशरथस्य सखा दशरथसख: 'जटायुः' वायोः सखा वायुसखः अग्निः । राजाहः सखिभ्यष्टच् अथवा वायु सखा अस्येति वायुसखा । टजभावादनङसावित्यनङ्। एवं मतिः सखा अस्येति मतिसखा बृहस्पतिः । निभग्रहणात् सुहृदादयो गृह्यन्ते । 'कविरूढ्या' इत्येव । नहि भवति यथा -- रामसखः सुग्रीवः, तथा — सुग्रीवसखः रामः इति । एव शिवसखः कुबेर:, तथा - - कुबेरसख: शिव: इति ।
"
अथ सम्प्रति वाह्यवाहकभावसम्बन्धमाहुः..वाह्याद् वाहनासनगामिनः । । ४३ ।। इति ।
व्याख्या - वाह्यादिति । वाह्याद् वाह्यवाचकाच्छब्दादुत्तरे वाहनादयः शब्दास्तद्वतां वाह्यवतां वाहयितॄणां नाम आहुः। यथा - हंसवाहन:, हंसासन:, हंसगामी, 'ब्रह्मा'। वृषभवाहनः, वृषभासन, वृषभगामी शिवः । एवं गरुडवाहनः, गरुडासन:, गरुडगामी, 'विष्णुः' । तेषां हि हंसादयो वाहनानि इति रूढिः । इह हंसयानः, वृषभयानः, गरुडयान इत्यादयोऽपि 'कविरूढ्या' इत्येव । नहि भवति यथा - ' नरवाहनः ' 'कुबेर:' तथा - नरः गामी, नरासन:, नरयानः । इति । अथाधुना ज्ञातेयसम्बन्धमाहुः
'ज्ञातेर्भगिन्य- वरज - सुता - ऽऽत्मजा - ऽग्रजादयः । इति ।
व्याख्या - ज्ञातेरिति । ज्ञातिः स्वजनः । तद्वाचकाच्छब्दादुत्तरे भगिन्यादयस्तद्वतां ज्ञातेयवतां ज्ञातीनां नाम आहः । भगिन्यादीनां च ज्ञातिविशेषवाचित्वाज्ज्ञातिविशेषादेव प्रयोगो यथा - कालभगिनी कालिन्दी। उतथ्यावरजः बृहस्पतिः । जहनुसुता जाह्नवी । सूर्यात्मजः शनिः । चन्द्रात्मजः बुधः । कृष्णाग्रजो बलदेवः । आदिशब्दात् सोदरादयो गृह्यन्ते । यथा – कालिन्दीसोदरा यमः । 'कविरूढ्या' इत्येव । नहि भवति यथा - कालिन्दी कालभगिनी तथा -- शनिभगिन्यपि ।
अथेदानीमाश्रया श्रायसम्बन्धमाहुः -
'आश्रया - द्वासि - सदनपर्यायाः सच्छयादयः ॥ ४४ ॥
For Private and Personal Use Only
व्याख्या - आश्रयादिति । आश्रयो निवासः तद्वाचकाच्छब्दादुत्तरे वासि - सदनपर्यायाः सच् शयादयश्च तद्वतां आश्रयवतां आश्रितानां नाम आहुः । यथा - आकाशवासिनः, आकाशसदनाः, आकाशसद आकाशशयाः एवं आकाशाश्रयाः दिवौकसः 'ग्रहाः'। दिवशब्दो वृत्तावकारान्तोप्यस्तीति । आकाशो व्योम, सच तेषामाश्रयः इति रूढिः । 'कविरूढ्या' इत्येव । नहि भवति यथा— आकाशसदना ग्रहाः, तथा भूमिसदना मानवाः । इति ।