________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दव्युत्पत्तिसर्ग:सर्गः
२६७ सदृशाः। तेन विश्वजनकः, विश्वकारक: इत्याद्यपि। कविरूढ्या इत्येव। नहि यथा-चित्रकृदुच्यते तथा चित्रसूः इति। एवं कारणाद् जनकात्परे जन्मादयः शब्दास्तद्वतां कारणवतां कार्याणां नाम आहः। यथा--आत्मजन्मा, आत्मजः, आत्मरुहः, आत्मसूतिः, आत्मभूः, आत्मयोनि: 'ब्रह्मा'। तस्य ह्यात्मा कारणमिति रूढिः। वक्ष्यमाणस्यादिशब्दस्याभिसम्बन्धात् सम्भवादयोऽपि गृह्यन्ते। अणादयस्तु-भानोरपत्यं भानवः, शनि:। इन्दोरपत्यं ऐन्दवः बुधः।
भमेरपत्यं भौमः। सोमस्यापत्यं सौम्यः, चन्द्रमसोऽपत्यं चान्द्रमसायनश्च बुधः। अङ्गिरसौऽपत्यं आङ्गिरस: बृहस्पतिः। भृगोरपत्यं भार्गव: शुक्रः। सिंहिकाया अपत्यं सैहिकेय: राहुः। इहापि हि भानवादीनां भान्वादयो हि जनका इति रूढिः। कविरूढ्या इत्येव। नहि-आत्मयोनिवत् आत्मजनकः, आत्मकारकः इति भवति।
अथेदानी धार्य-धारकसम्बन्धमाहुःधार्य्याद् भूषण-मौल्य-ङ्क-पाण्य-स्त्र-ध्वज-भृन्नि-भाः।
भर्तृ-शेखर-मत्वर्थ-शालि-मालि-धरा अपि।।४१।। इति। व्याख्या-धार्यादिति। भत्रिति च। धार्याद् धार्यवाचकाद् भूषणादयो धरान्ता धारकस्य नाम आहुः। यथा-शशिभूषणः, चन्द्रमौली, वृषाङ्क:, पिनाकपाणिः, शूलास्त्रः, वृषध्वजः, शूलभृत, निभग्रहणात् तत्तुल्या वृषकेतन-शूलायुध-वृषलक्ष्म-चन्द्रशिरस्-चन्द्राभरणादयो गृह्यन्ते। तथा—पिनाकशाली, शशिशेखरः, शूली, पिनाकमाली पिनाकं मलते धारयतीति कृत्वा पिनाकभर्ता, गङ्गाधरः। कविरूढ्या इत्येव।
__ अथ सम्प्रति भक्ष्यभक्षकभावसम्बन्धमाहुः_ 'भक्ष्यात् पायि-व्रता-न्यो-लिट्-पा-ऽऽशा-ऽशन-भुगादिकाः। इति। व्याख्या-भक्ष्यादिति। भक्ष्यं भोज्यं तद्वाचिन: शब्दात्परे पाय्यादयः शब्दास्तद्वतां भक्ष्यवतां भक्षकाणां नाम आहुः। यथा-सुधापायिनः, सुधाव्रताः, सुधान्धसः, सुधालिहः, सुधापाः, सुधाशाः, सुधाशनाः, सुधाभुजः, सुराः। तेषां हि सुधाभक्ष्या, इति रूढिः।
अथाधुना धववधूभावसम्बन्धमाहुःधवात्प्रणयिनी-कान्ता-वल्लभा-गृहिणीसमाः।।४२।।
वध्वा वरे-श-रमणो-पयन्त-वल्लभादयः। व्याख्या—धवादिति। धव: पतिस्तद्वाचकशब्दात् प्रणयिनीसदृशाः शब्दास्तद्वतीनां पतिमतीनां भार्याणां नाम आहुः। यथा—सूर्यप्रणयिनी, सूर्यकान्ता, सूर्यवल्लभा, सूर्यगृहिणी, संज्ञा। एवं चन्द्रप्रणयिनी, चन्द्रकान्ता, चन्द्रवल्लभा, चन्द्रगृहिणी,रोहिणी। तयोः हि सूर्यः चन्द्रश्च पतीइति रूढिः। समग्रहणात्प्रियतमा-वधू-रमणीप्रभृतयो गृह्यन्ते। कविरूढ्या इत्येवा नहि भवति यथा-सूर्य-प्रणयिनी तथा सूर्यपरिग्रहः। इति। वध्वा इति। वधूवाचिन: शब्दात्परे वरादयः शब्दास्तद्वतां वधूवतामुपयन्तॄणां नाम आहुः। यथा-सञ्ज्ञावरः,सज्ञेश:, सज्ञारमणः, सज्ञोपयन्ता, सज्ञावल्लभाः, 'सूर्यः तस्य हि सज्ञावधूः, इति रूढिः। आदिशब्दात् तत्सदृशार्थाः पत्यादयो गृह्यन्ते। कविरूढ्या इत्येव। नहि भवति यथा-सञ्ज्ञावर: सूर्यः, तथा विभाकर: इति।
For Private and Personal Use Only