________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
ज्योतिर्विज्ञानशब्दकोषः विमान-स्तारकाराति-गन्धर्वाः कश्यपो-ऽदितिः। विद्याधरादय-स्त्वष्टा नासत्यौ पीतदारु च।।३४।। लवङ्गं स्वर्णरम्भा च तथा चाप्यमरावती। होमो ऽर्कः कौस्तुभमणि-स्तुलसी च शतक्रतू। शुक्रो जीवौ तथा नाक-रत्नसानु प्रसादनाः। आयुधं च तथा स्वर्गः शक्र-श्चैत्ररथादिकाः सुधर्माऽपि वयःस्था च विधातृभू-कचादिकाः। महाज्योतिष्मती जतनयाऽथो नभः सरित् नलोत्तम स्तथा देवसर्षप-स्तुवरी-त्यपि। अगस्त्यपादप श्चैते-शब्दा योज्या:सुरातपरे।।३८।।
तत्तन्नामे-तराणी-ति पदयोः परिवर्तनात्। व्याख्या-आहार इति। धनुरिति। सुधेति। विमान इति। लवङ्गमिति। शुक्र इति। सुधर्मेति। नलोत्तम इतिच। एषां व्याख्या तु सुगमा। एत इति। एतेऽमीशब्दा ध्वनय:, सुरात् सुरशब्दात्, परे परत उत्तरे वा योज्या योजनीयाः। तदा तत्तन्नाम आहारादीनां प्रियान्तानां नाम संज्ञा आहुरिति शेषः। इत्येवं, पदयोः पूर्वोत्तरपदयोः, परिवर्तनात् परावृत्तेस्तेषामितराण्यन्यानि नामान्यूह्यानि। इति विवृतिः।
यथा-सुराहारः सुधा। सुररिपवो दैतेय-दनुज-नैकषेयाः। सुराचलो हिमाचल:। सुरतरव: पारिजातादयः। सुरज्येष्ठो ब्रह्मा। सुराङ्गनास्तिलोत्तमादिकाः। सुखाहनं विमानः। सुत्सेनानीतारकाराति: (स्कन्दः)। सुरसखा: सुरगायनाश्च गन्धर्वास्तुम्बुरुप्रभृतयः। सुरजनक: कश्यपः। सुराम्बा अदितिः। सुरयोनयो विद्याधरादयः। सुरवर्द्धकि: त्वष्टा (विश्वकर्मा)। सुरवैद्यौ नासत्यौ (अश्विनीकुमारी)। सुरदारु पीतदारु (दीवार इति प्रसिद्धोवृक्षः)। सुरसुमं लवङ्गम्। सुरप्रिया स्वर्णरम्भा जाति। सुरनगरी अमरावती। सुरयज्ञो होमः। सुरोत्तमोऽर्क: (सूर्यः)। सुरतोषक: कौस्तुभमणिः। सुरवल्ली तुलसी। सुरराजः सुरपतिश्च शतक्रतू (इन्द्रौ)। सुरारातिसचिवः शुक्रः। सुरमंत्री सुरगुरुश्च जीवो (बृहस्पतिः)। सुरालयाः स्वर्ग-सुमेरु–प्रासादाः। सुरायुधं धनुः (शक्रधनुः)। सुरलोकः, स्वर्ग:। सुराश्रय इन्द्रः। सुरारामा: चैत्ररथादिकाः। सुरसभा सुधर्मा। सुरश्रेष्ठा वयः स्था (ब्राही) सुरर्षयो विधातृभू-(नारदः) कचादिका:। सुरलता महाज्योतिष्मती। सुरनिम्नगा जतनया (भागीरथी)। सुरदीर्घिका नभः सरित् (मन्दाकिनी आकाशगङ्गा)। सुरनालो नलोत्तमः। सुरसर्षपो देवसर्षपः। सुरमृत्तिका तुवरी (काक्षी)। सुरप्रियोऽस्त्यपादपः। इति।
अथ सम्प्रति कार्यकारणभावसम्बन्धं व्याचष्टेकार्यकारणयोर्भावसम्बन्धश्चेह
कथ्यते।।३९।। कार्याद् विधातृ कृत् कर्तृ कर सू स्रष्ट-सृड्-निभाः। कारणाद् जन्म ज-रुह-सूति-भू-योन्य णादिकाः।।४०॥ इति।
अस्य व्याख्या-कायेति। कार्यादिति। कारणादिति च। यदा कार्याद् जन्यात्परे विधात्रादय: शब्दास्तद्वतां कारणानां जनकानां नाम आहुः। यथा-विश्वविधाता, विश्वकृत्, विश्वकर्ता, विश्वकरः, विश्वसू: विश्वस्रष्टा, विश्वसृट 'ब्रह्मा' । तस्य हि विश्वं कार्यमिति रूढि: ।। निभाः
For Private and Personal Use Only