________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दव्युत्पत्तिसर्ग:सर्गः
२६३ प्रत्ययाः स्युस्तदा विदो बुधस्य नामानि भवन्ति। यथा-चान्द्रिः, शाशाङ्किः, ऐन्दवः, वैधवः, चान्द्रमसायन:, चान्द्रमसायनिः, रोहिणेयः, तारकेयः, तारेयः। इति। श्रविष्ठाया उत्तरे यदि भवस्तदा तद्वत्। यथा-श्रविष्ठाभवः। इति। एवं अब्जादुत्तर तनयस्तदा बुधस्य नाम। यथाअब्जतनयः। इति।
अथ सम्प्रति बृहस्पतेयौगिकनामान्याह......................ऽथ वागीश्वरस्य नामानि।
उतथ्यादनुजो, भवः, फाल्गुन्या, अङ्गिरसस्तथाण।।२०।। व्याख्या-अथेति उतथ्यो बृहस्पतेज्येष्टभ्राता तस्मादुत्तरे यद्यनुजशब्दस्तदा वागीश्वरस्य बृहस्पते म स्यात्, यथा-उतथ्यानुजः। इति। फाल्गुन्या: परतो यदा भवशब्दस्तदा तद्वत्। यथा-फाल्गुनीभवः। इति। अङ्गिराः सप्तर्षिविशेषस्तन्नामत उत्तरे यद्यण् प्रत्यय: स्यात्तदा तद्वत्। यथा-आङ्गिरसः। इति।
अथेदानीं वक्ष्यमाणोत्तरपदेषु बृहस्पतिशुक्रयोोगिकनामान्याह
अदिति-दितिजाभ्यां परे, याजको-पाध्याय-पूजित-पूज्याः। ऋत्विगा-चार्यो-पनी-दयित-प्रिय-सुह-दीड्य-नुतानि ॥ पुरोहित-सौवस्तिको महिता-र्चित-गुरु-वन्ध-नमस्ये-ज्याः।
राजवन्दितपदोऽर्चितपद-मंत्रिणी, झ-भयोः क्रमान्नाम।। व्याख्या-अदितीति। पुरोहितेति च। अदितिज: देवः। दितिज: दैत्यः। आभ्यां परे उत्तरे यदि याजक-उपाध्याय-पूजित-पूज्य-ऋत्विक्-आचार्य-उपनी-दयित-प्रिय-सुहद्-ईड्य-नुत-पुरोहित-सौवस्तिक-महित-अर्चित-गुरु, वन्द्य नमस्य इज्य-राजवन्दितपद-अर्चितपद,-मंत्रीत्यादयः शब्दाः सन्ति तदा क्रमात् झ-भयोबृंहस्पतिशुक्रयोरेकयोक्त्या नामानि भवन्ति। यथा-देवयाजकः, देवोपाध्यायः, देवपूजितः, देवपूज्यः, देवत्विक् (ज), देवाचार्य:, देवोपनी:, देवदयितः, देवपियः, देवसुहत् (द), देवेड्यः, देवनुतः, देवपुरोहित:, देवसौवस्तिकः, देवमहितः, देवार्चित:, देवगुरुः, देववन्द्यः, देवनमस्य:, देवेज्यः, देवराजवन्दितपदः, देवार्चितपदः, देवमंत्री, चेति। एवं दैत्ययाजक:, दैत्योपाध्यायः, दैत्यपूजितः, दैत्यपूज्य:, दैत्यपूज्य:, दैतयविक्, दैत्याचार्यः, दैत्योपनी:, दैत्यदयितः, दैत्यप्रियः, दैत्यसुहत् (द्), दैत्येड्यः, दैत्यनुतः, दैत्यपुरोहितः, दैत्यसौवस्तिकः, दैत्यमहितः, दैत्यार्चित:, दैत्यगुरुः, दैत्यवन्द्यः, दैत्यनमस्य:, दैत्येज्य:, दैत्यराजवन्दितपदः, दैत्यार्चितपदः, दैत्यमंत्री, चेति क्रमात् झ-भयोर्गुरुशुक्रयो मानि स्युः।
अथ साम्प्रतं शुक्रस्यान्ययौगिकनामान्याहशतपर्वाया: पति-श्च भृगुतस्तनयो -" च पुरोहितो बलेः। गुरु-र्दानवात्सितस्य नामा,-इति।
व्याख्या-शतेति-शतपर्वाया उत्तरे यदि पतिशब्द: स्यात्तंदा शुक्रस्य नाम। यथाशतपर्वापतिः। इति। भृगुतः परतो यदा तनयोऽण्-प्रत्ययश्च तदा शुक्रस्य नाम। यथाभृगुतनयः, भार्गवः। इति। बलेरुत्तरे यदा पुरोहितशब्दस्तदा तद्वत्। यथा-बलिपुरोहितः। इति। एवं दानवादुत्तरे चेद्गुरुशब्दस्तदा सितस्य नाम।
१८ ज्यो.वि.शब्दकोष
For Private and Personal Use Only