________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
ज्योतिर्विज्ञानशब्दकोषः यथा--दानवगुरुः। इति।
अथाधुना शने? गिकनामान्याह.......................ऽथ शनेः कृशादङ्ग। म्नीलाद्वस्त्रं, घटत: स्वामी, छायापतङ्गतोऽणाद्याः।
रेवत्याभू,-मन्दा, न्मृदोश्च ग,-गति, गमन,-गामिनोः इति। व्याख्या-अथेति। नील दिति च। अथवाशब्दोऽनन्तरवाची। कृशादुत्तरे चेदङ्गं तदा शने म स्यात्। यथा--कृशाङ्गः। इति। नीलादुत्तरे चेद्वस्त्रं तदा तद्वत्। यथा-नीलवस्त्रः। इति। घटत उत्तरे यदि स्वामिशब्दस्तदा तद्वत्। यथा-घटस्वामी। इति। छायायाः, पतङ्गाच्च परतोऽणाद्या: प्रत्ययाश्चेत्तदा तद्वत्। यथा-छायेयः, पातङ्गिः। इति। रेवत्या उत्तरे यदा भूशब्दस्तदा तद्वत्। यथा-रेवतीभूः। मन्दात्, मृदोश्चोत्तरे यदा ग-गति-गमन-गामिशब्दाः स्युस्तदा ते शने मानि भवन्ति। यथा-मन्दगः, मृदुगति:, मृदुगमन:, मृदुगामी शने मानि स्युः।
अथ साम्प्रतं राहोर्योगिकनामान्याह....ऽथ चन्द्रात्तुद-मद्य-रयो भरण्या भवो भुजङ्गमात्स्वामी। शिरसो ग्रहश्च देवा-दरिः सिंहीतोऽण् त्रिदिवतो भानुः।।२५।। राहोर्नामा, इति।
व्याख्या-अथेति। चन्द्रादिति। राहोरिति च। अथानन्तय्यें। चन्द्रादुत्तरे तुदः, मर्दी, अरिशब्दश्चेत्तदा राहोर्नामानि स्युः। यथा-चन्द्रन्तुदः, चन्द्रमर्दी, चन्द्रारिः। इति। भुजङ्गमादुत्तरे यदि स्वामिशब्दस्तदा तद्वत्। यथा भुजङ्गस्वामी। इति। शिरस उत्तरे यदा ग्रहशब्दस्तदा तद्वत्। यथा-शिरोग्रहः। इति। देवात्परतोऽरिश्चेत्तदा तद्वत्। यथा-देवारिः। इति। सिंहीत: परतो यदाण् प्रत्ययस्तदा तद्वत्। यथा-सैंहेप:, सैहिकेय: इति। त्रिदिवत: परतो भानु-स्तदा राहो म स्यात्। यथा-त्रिदिवभानुः। इति।
___ अथेदानी केतोयौगिकनामान्याह......ऽथो कच ऊर्ध्वा -त्पुच्छ-मगोः, कबन्धा त्खगः।
आश्लेषायाश्च भव: शिखातो मतुब्केतोर्नाम।।२६।। व्याख्या-अथो इति। अथो शब्दोऽनन्तर वाची। ऊर्ध्वात्परत: कचशब्दश्चेत्तदा केतोर्नाम स्यात्। यथा-ऊर्ध्वकचः। इति। अगोरुत्तरे यदा पुच्छशब्दस्तदा तद्वत्। यथा-अगुपुच्छः। इति। कबन्धादुत्तरे यदि खगशब्दस्तदा तद्वत्। यथा—कबन्धखगः। इति। आश्लेषायाः परतो यदा भवशब्दस्तदा तद्वत्। यथा-आश्लेषाभव: इति। शिखात उत्तरे यदि मतुष्प्रत्ययस्तदा तद्वत्। यथा-शिखावान्। इत्येतानि केतोर्नामानि स्यः।।
__ अथाधुना गुलिकस्य यौगिकनामनी आह
___ अत्युपसर्गात्पापी, प्राणाद्धरो, गुलिकस्य च नाम। व्याख्या-अतीति। अतित: परत: पापि-शब्दश्चेत्तदा गुलिकस्य नाम स्यात्। यथाअतिपापी। इति। प्राणादुत्तरे यदि हरशब्दस्तदा तद्वत्। यथा--प्राणहरः। इति।
For Private and Personal Use Only