________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
ज्योतिर्विज्ञानशब्दकोषः राका-रात्रि-कौमुदी-तारा-कुमुदिनी-रोहिणी-भेभ्यः। द्विजौषधीभ्यां पतिस्तथा दाक्षायणी-दक्षजाभ्यां च। शर्वर्या रत्नकरौ मतुब्धरान्ता कलाऽनुजो लक्ष्म्याः।
अत्रिनयनतो जननं कुमुदाद्वन्धुरब्धेस्तनयः। इति। व्याख्या-अथेति-राकेति। शर्वर्या इति च। अथ शब्द आनन्तार्थे। हिमम्, सितम्, सुधा, चैभ्यः शब्देभ्यः परतो दीप्तिशब्दश्चेत्तदा चन्द्रमसो नामानि स्युः। यथा-हिम-दीप्तिः, सितदीप्ति:, सुधादीप्तिः। इति। पीयूषात् परत: सू:, अङ्गं, चैतौ शब्दौ स्यातां तदा तद्वत्। यथा-पीयूषसूः, पीयूषाङ्गः। इति। हरिणः, शश:, छाया चैभ्यः परत: अङ्घ, धर:, भृच्चैते शब्दास्स्युस्तदा तद्वत्। यथा-हरिणाङ्क:, हरिणधरः, हरिणभृत्। शशाङ्क:, शशधरः, शशभृत्। छायाङ्कः, छायाधरः, छायाभृत्। इति। राका, रात्रिः, कौमुदी, तारा, कुमुदिनी, रोहिणी, भम्, द्विजः, ओषधी, दाक्षायणी, दक्षजा, चैभ्यः परतो यदि पतिशब्दस्तदा तद्वत्। यथा-राकापतिः, रात्रिपतिः, कौमुदीपतिः, तारापति:, कुमुदिनीपतिः, रोहिणी भपति:, द्विजपतिः, ओषधीपतिः, दाक्षायणीपतिः, दक्षजापतिः। इति। शर्वर्या उत्तरे यदि रत्नं करश्च यदि तदा तद्वत्। यथाशर्वरीरत्नम्, शर्वरीकरः। इति यदि कलाशब्दो मतुब्धरान्तस्तदा तद्वत्। यथा-कलावान्, कलाधरः। इति लक्ष्म्या उत्तरे यद्यनुजस्तदा तद्वत्। यथा-लक्ष्म्यनुजः। इति। अत्रिः सप्तर्षिविशेषः, तस्य नयनतो नेत्राद् उत्तरे यदि जननं तदा तद्वत्। यथा-अत्रिनेत्रजननः। इति। कुमुदादुत्तरे यदा बन्धुस्तदा तद्वत्। यथा-कुमुदबन्धुः। इति अब्धेरुत्तरे यदि तनयस्तदा तद्वत्। यथा-अब्धितनयः। इति।
अथाधुना भौमस्य यौगिकशब्दानाह'अथ नामानि भौमस्य लोहित-रुधिरत: कराने परतः। तथा क्रूरादिलोचन-माषाढाया भूः क्षितेस्तनयश्च।।१८। भूनाम्नोडणादयो, इति।
व्याख्या-अथेति। भूनाम्न इति च। लोहितम्, रुधिरं चाभ्यां परतश्चेत्कर:, अङ्गः, च स्यातां तदा भौमस्य नामानि स्युः। यथा-लोहितकरः, लोहिताङ्गः। रुधिकरः, रुधिराङ्गः। इति। क्रूरादुत्तरे यदि विलोचनं तदा तद्वत्। यथा-क्रूरविलोचनः। इति। आषाढाया उत्तरे यदा भूस्तदा तद्वत्। यथा-आषाढाभूः। इति। क्षितेरुत्तरे यदा तनयस्तदा तद्वत्। यथा-क्षितितनयः। इति। भू:पृथ्वी तस्या नाम आख्या तस्याः परतो यदि अणादयः प्रत्ययाः स्युस्तदातेऽपि भौमनामानि स्युः। यथा-भौमः, आवनेय:,माहेयः, ऐलेय:, आचलेय:, क्षैत: इति।
अथ साम्प्रतं बुधस्य यौगिकशब्दानाह..........ऽथ नामानि विद: श्यामलादङ्गं च। अणाद्याश्चन्द्रनाम्नस्तथा रोहिणी-ताराभ्यां च।।१९।।
श्रविष्ठाया भवोऽब्जात्तनयो, इति। व्याख्या-अथेति । श्रविष्ठाया इति च। श्यामलादुत्तरेऽङ्गं चेत्तदाविदो नाम स्यात्। यथा -श्यामलाङ्गः। चन्द्रनाम्नचन्द्राख्यायाः तथा रोहिण्या: ताराश्याश्च परतो यद्यणाद्याः
For Private and Personal Use Only