________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दव्युत्पत्तिसर्गः सर्गः
२६१
व्याख्या - क्रमेणेति । क्रमेण क्रमतः इनादीनां सूर्यादीनां यौगिकान् शब्दान् योगजशब्दान् अहम् प्रवच्मि ब्रवीमि ।
तत्राऽऽदौ रवेर्यौगिक शब्दानाह
पति-र्जलजिनी - छाया-सञ्ज्ञा वडवा-राज्ञीभ्यश्च । स्वामीगो -- ग्रहतो गोविन्दपदत-स्तिलकमणी कर्म- जगद्भायां साक्षी, चक्रवाका-ऽम्बुजन - लोकेभ्यः । बन्धुः प्रभाया: करो दिनात्स्वामी-कर-कृन्मणयश्च । अम्बरतो ध्वज-मार्गगा वंश्व-ब्जाभ्यां हस्तो ध्वान्ताद् द्विट् । तेजो-महोभ्यांराशि- निधी, सहस्र तिग्मो-ष्णतो रश्मिः । मतुबन्ताश्च विवस्वद्भानु- ज्योति - रर्चिषो, विज्ञेयाः । जगतश्च नेत्रदीपौ, शनि - कर्ण-यम-स - सुग्रीवेभ्यश्च सूः ।।१४।। नामान्येतानि रवे - रिति ।
व्याख्या - पतिरिति । अम्बरत इति । मतुबन्ता इति । नामानीति च। जलजिनी, छाया, सञ्ज्ञा, वडवा, राज्ञी, चैभ्यः शब्देभ्यः परतः पतिशब्दो नियोज्यस्तदा रविनामानि स्युः । यथाजलजिनीपतिः, छायापतिः, सञ्ज्ञापतिः, वडवापतिः, राज्ञीपतिः । इति। गौः,
धुः, ग्रहश्चेभ्यः शब्देभ्यः परतः स्वामिशब्दो नियोज्यस्तदा वेर्नामानि स्युः । यथा - गोस्वामी, घुस्वामी, ग्रहस्वामी तदा तद्वत्। गोविन्दपदत आकाशशब्दादुत्तरे तिलक-मणीचेत्तदा तद्वत्। यथा-गोविन्दपदतिलकः, गोविन्दपदमणिः । इति । कर्मजगच्चाभ्यामुत्तरे साक्षिशब्दश्चेत्तदा तद्वत्। यथा कर्मसाक्षी, जगत्साक्षी । इति। चक्रवाकः, अम्बुजम्, लोकश्चैभ्यः परतश्चेद्वन्धुशब्दस्तदा तद्वत् यथा चक्रवाकबन्धुः, अम्बुजबन्धुः, लोकबन्धुः, इति । प्रभाया उत्तरे यदि करशब्दस्तदा तद्वत् । यथा- प्रभाकरः, इति । दिनात्परतः स्वामी, करः, कृत्, मणि-श्चैते शब्दाः स्युस्तदा तद्वत् । यथा-दिनस्वामी, दिनकरः, दिनकृत्, दिनमणिः, इति। अम्बरत उत्तरे यदा ध्वज - मार्गगशब्दौ स्यातां तदा तद्वत्। यथा अम्बरध्वजः, अम्बरमार्गगः । इति । अंशुः, अब्जं चाभ्यामुत्तरे यदा हस्तस्तदा तद्वत् । यथाअंशुहस्तः, अब्जहस्तः। इति । ध्वान्तादुत्तरे यदा द्विट् तदा तद्वत् । ध्वान्तद्विट् । इति । तेज:, महश्चाभ्यामुत्तरे यदा राशिनिधिशब्दौ स्यातां तदा तद्वत्। यथा-तेजोराशिः, तेजोनिधिः, महोराशिः, महोनिधि:, इति । सहस्रम् तिग्मम्, उष्णं चैभ्यः परतो यदा रश्मिशब्दस्तदा तद्वत् । यथासहस्ररश्मिः, तिग्मरश्मिः, उष्णरश्मिः । इति । विवस्वद्, भानुः, ज्योतिः, अर्चिश्चैते शब्दा यदा मतुप्प्रत्ययान्तास्तदा तद्वत्। यथा- विवस्वान्, भानुमान्, ज्योतिष्मान्, अर्चिष्मान् । इति । जगत उत्तरे यदि नेत्रदीप शब्दौ स्यातां तदा तद्वत् । यथा जगन्नेत्रः, जगद्दीप:, इति । शनि:, कर्ण:, यमः, सुग्रीवः, श्चैभ्य उत्तरे यदि सूशब्दस्तदा तद्वत्। यथा शनिसूः, कर्णसूः, यमसूः, सुग्रीवसू: । इत्येतानि खेर्नामानि स्युः ।
+
अथ सम्प्रति चन्द्रस्य यौगिकशब्दानाह. अथ विधोर्हिम-सित-सुधाभ्यो दीप्ति: । पीयूषत्सू: श्चाङ्गं हरिण - शश- च्छायाभ्योऽङ्कधरभृतः ।। १५॥
For Private and Personal Use Only