________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६०
ज्योतिर्विज्ञानशब्दकोष:
तेन - एकदेहः बुधः । द्विरदः हस्ती । द्विरेफः भ्रमरः । त्रिलोचनः शिवः । त्रिशिरा: असुर विशेष: । चतुर्मुखः ब्रह्मा । चतुर्बाहुः विष्णुः । पञ्चबाणः कामः । पञ्चार्चि: बुधः षडंघ्रिः भ्रमरः । षण्मुखः स्कन्दः। सप्तपर्ण: सांतवण इति ख्यातो वृक्षः । सप्तार्चिः शनिः । सप्ताश्वः सूर्यः । अष्टमूतिः शिवः । अष्टश्रवा: ब्रह्मा । नवशक्ति: शिव: । नवार्चि: भौमः । दशकण्ठः रावणः । दशाश्वः चन्द्रः। एकादशद्वारं शरीराख्य पुरम् । द्वादशभुजः स्कन्दः । द्वादशार्चि: बृहस्पतिः । षोडशांघ्रिः कर्कटः। षोडशा र्चिः शुक्रः । विंशतिभुजः रावणः । शतक्रतुः इन्द्रः । शताङ्गुलिः, रावणः। दशाशतकरः सूर्यः । सहसनयन इन्द्रः । सहस्रबाहुः कार्तवीर्यः । सहस्रवदनः शेषः । सहस्तांशुः, सूर्य इत्यादि संगृहीतम् । क्रियायाः क्रियानिबन्धनो योगो येषां ते कर्तृप्रभृतयः । करोति इति करणप्राधान्यात्कर्त्ता ब्रह्मा एव धाता विधाता इत्यादयः । अथ साम्प्रतं सम्बन्धं व्याचष्टेनिजेशत्वादिसम्बन्धो नामाहुस्तत्रतद्वताम् ।
Acharya Shri Kailassagarsuri Gyanmandir
स्वान्नाथा - धीश नेतार इन्द्रश्च नायकः प्रभुः || ६ ॥ स्वामी - शानोऽधिभू - पाल-पति- भर्तार ईशिता । क्वचिदत्र धरो माली पाणिर्मत्वर्थपूर्वकाः ॥ ७ ॥
व्याख्या - निजेति । स्वामीति च। निजम् आत्मीयम्, ईश: स्वामी यस्तत्र प्रभविष्णुः उत्पत्तिकाले सर्वस्य प्रभवनशील इत्यर्थः । तयोर्भावो निजेशत्वम् । तदादिसम्बन्धः । आदिशब्दात्कार्यकारणभावादि परिग्रहः । इति । तत्र निजेशभावसम्बन्धे नाथादयः शब्दाः निजात् (मूलशब्दात्) परे नियोजिताः तद्वतां ईशानां स्वामिनां नाम आहुः ब्रुवन्ति । मत्वर्थपूर्वका इति । मतुस्तद्धितः । तस्यार्थोऽस्त्यर्थविशिष्टप्रकृत्यर्थेन सह देवदत्तादेः सम्बन्धः । तदाधारो वा तदस्यास्त्यस्मिन्निति मतुः इति मतुप्रत्ययविधानात् मतोरर्थो यस्य स मत्वर्थकस्तद्धितो मतुना समानार्थ इत्यर्थः। स च इन्त्रणिकादिः । मत्वर्थाव्यभिचारान्मतुरपि । आदिशब्द दधिपादयोऽपि । नामाहुस्तत्र तद्वताम् इति उत्तरेष्वप्यनुवर्तनीयम् ।
अत्र क्रमेणोदाहरणानि व्याचष्टेग्रहनाथो ग्रहाधीशो ग्रहेन्द्रो ग्रहनायकः । ग्रहप्रभुग्रहस्वामी महेशानो ग्रहाधिभूः ॥ ८ ॥ ग्रहपालो ग्रहपतिर्ग्रहभर्ता ग्रहेशिता । अंशुमाली चांशुधरोह्यंशुपाणिस्तथांशुमान्॥९॥ इति रूढ्या कवीन्द्राणां स्मृतोदाहरणावली । इति।
व्याख्या:-: - ग्रहनाथ इति । ग्रहपाल इति । इतीति च । ग्रहनाथः, ग्रहाधीश, ग्रहेन्द्रः ग्रहनायक:, ग्रहप्रभुः, ग्रहस्वामी ( इन्), ग्रहेशानः, ग्रहाधिभूः, ग्रहपाल, ग्रहपतिः, ग्रहभर्ता (तृ), ग्रहेशिता (तृ), क्वचित्तु - अंशुमाली (इन्), अंशुधरः, अंशुपाणिः, अंशुमान् (मत्वन्तः ), सूर्य: । इतिशब्दः प्रकारार्थः । तेन ग्रहाधिपादयोऽपि । कवीन्द्राणां कविश्रेष्ठानां रूढिः परम्परा तया न तु कविरूढ्यति क्रमेण । एष उदाहरणावली उदाहृति: श्रेणी स्मृता ज्ञेया । इति । अथातः परं रव्यादीनां यौगिकशब्दानाहक्रमेण यौगिकाञ्छब्दानिनादीनां प्रवच्म्यहम् ।
For Private and Personal Use Only