________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दव्युत्पत्तिसर्ग: सर्ग: शब्दव्युत्पत्तिसर्गः - १९
तत्रादौ शब्दपर्यायानाचष्टे
शब्दो व्योमगुणः स्वनिर्नरि रसो घोषो न ना गर्जना | भ्रूणा क्ष्वेडविरावरावरवणा गानाभिधाने स्वनः । कानं कूजित - कूजने च मशनं गर्जा द्वयो- गुञ्जनं । निर्घोषो निनदः स्वरः कुहरितं निह्रादको निस्वनः ॥ १ ॥ संरावाऽऽरववाचकाश्च रणको ध्वानो भिधा मुञ्जनं हादो गञ्जन भणे क्वणतकं क्वाणः क्वणो निक्वणः । निक्वाणोऽपि च कोरणं नरि कणि-हासाभिलापा वपि स्वानाऽऽरावकवा ध्वनिर्नरि तथा नादो निनादो रवः ॥ २ ॥
व्याख्या— शब्द इति। संरावेति च। शब्दः, व्योमगुण:, स्वनि:, रस:, घोष:, गर्जना, भ्रूणा, क्ष्वेड:, विराव:, राव:, रवणः, गानम्, अभिधानम्, स्वन:, कानम्, कूजितम्, कूजनम्, मशनम्, गर्जा, गुञ्जनम्, निर्घोष:, निनदः, स्वरः, कुहरितम्, निह्रादकः, निस्वनः, संरावः, आरवः, वाचकः, रणकः, ध्वानः, अभिधा, मुञ्जनम्, ह्राद:, गञ्जनम्, रेभणम्, क्वणनकम्, क्वाण:, क्वणः, निक्वणः, निक्वाणः, कोरणम्, कणि:, ह्रास:, अभिलाप:, स्वानः, आरवः, कवः, ध्वनिः, नादः, निनादः, रवः । इति शब्दमात्रस्य द्विपञ्चाशन्नामानि स्युः । तत्र गर्जना स्त्रीक्लीबयोः । गर्जा स्त्रीपुंसयोः । स्वनिः, कणिः, ध्वनिश्च पुंसि । क्वणनम्, निःस्वनः, निःस्वानः निस्वनः, रणः, इत्यन्ये शब्दा अपि शब्दपर्यायेषु दृश्यन्ते ।
अथेदानीं शब्दभेदान्व्याचष्टे -
'रूढश्च योगिको योगरूढाख्य: पारिभाषिकः । एवं चतुर्विधाः शब्दास्त्रिविधा इति केचन || ३ || रूढयौगिकमिरास्ते मण्डपाखण्डलौ मणिः । व्युत्पत्तिवर्जिता रूढा अथो योगोऽन्वयश्च सः ॥ ४ ॥ गुणात् क्रियायाः सम्बन्धात्सञ्जातोऽत्र ततो गुणात् ।
श्यामाङ्गः पीतवासाश्च क्रियायाः कर्तृतुल्यकाः ॥ ५ ॥
२५९
For Private and Personal Use Only
व्याख्या–रूढ इति। रूढेति । गुणादिति च। (१) रूढः, (२) यौगिक:, (३) योगरूढः, (४) पारिभाषिकश्च। एवं शब्दः प्रकारार्थः । चतुर्विधाः शब्दाः भवेयुरिति शेषः । केचन शब्दवेदिनस्तु रूढः, यौगिक: मिश्रश्च ते त्रिविधा इत्याहुः । ' तत्र रूढाञ्च्छब्दान्व्याचष्टे प्रकृति प्रत्ययविभागेनान्वर्थवर्जिता व्युत्पत्तिरहिताः शब्दा रूढाः स्युः । मण्डप - आखण्डलमणिनूपुरादय इत्युदाहरणम्। यौगिकशब्दान्व्याचष्टे – शब्दानामन्योन्यमर्थानुगमनमन्वयः सयोगः । स च पुनः योगो गुणात्, क्रियायाः सम्बन्धाच्च भवति । गुणः श्यामपीतादिः । क्रिया करोत्यादिका । सम्बन्धो वक्ष्यमाणः सञ्जातो यस्य स तथा । गुणक्रियासम्भवयोगेन यौगिकानामुदाहारणम्गुणतो गुणनिबन्धनो येषां योगस्ते शब्दाः श्यामाङ्गः, पीतवासाः इत्याद्याः । श्यामः अङ्गमस्य इति गुणप्राधान्याद् श्यामाङ्गः बुधः । पीतः वासोऽस्य इति गुणप्राधान्यात् पीतवासाः, बृहस्पतिः । एवं कौसुम्भवासाः सूर्यः इत्यन्येऽप्यूहनीयाः । संख्याऽपि गुण एव इति । एकदन्तः गणेशः ।