________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
ज्योतिर्विज्ञानशब्दकोष: (विप्लव:), कलहभेदः (नृपतिरहितयुद्धम्), डिम्ब:, प्रवासः, इति।
कृषः षट् प्रकारोपद्रवभेदा:-अतिवृष्टिः, (२) अनावृष्टिः, खण्डवृष्टिः, (३) शलभाः, (४) मूष (षि) काः, (५) शुकाः (खगाः), (६) अ (प्र) त्यासन्नाश्च राजानः, इत्येता: षईतयः स्युः। अथवा स्वचक्रम्, (७) परचक्रम्, इत्येता: सप्त ईतयः स्युः।
उक्तं च-अतिवृष्टिरनावृष्टिः शलभा मूष (षि) का शुका: (खगाः)। अ (प्र) त्यासन्नाश्च राजानः षडेता ईतयः स्मृताः।। अथवा-स्वचक्रं परचक्रं वा सप्तैता ईतयः स्मृता। इति पाठान्तरम्।
अजन्यप०-अजन्यम् (न०), १ उत्पातः, उपद्रवः, उपप्लवः, उपसर्गः, शुभाशुभसूचकमहाभूतविकारः। २ रोगप्रभेदः।
तदुक्तम्-विदुरजन्यमुत्पातम् इति हारावल्याम्। ४०६/२१०
उत्पातभेदाः-(१) दिव्योत्पात:, (२) आन्तरीक्ष्योत्पात:, (३) भौमोत्पात:। इत्युत्पातस्य त्रयो भेदाः स्युः। तत्र दिव्यो यथा-अपर्वणि चन्द्रादित्यग्रास:। आन्तरीक्ष्यो यथा- उल्कापातनिर्घातादिः। भौमो यथा-भूकम्पादिः।
उल्कापातपर्यायौ-उल्कापात:, अग्निशिखावत्तेजः पात:। निर्घातप०-निर्घात: (पुं०), व्योममुद्गरः, (पुं०)।
तदुक्तम्-'निर्घातो व्योममुद्गरः।' इति हारावल्याम्। ४०६/२१ वाय्वभिहतवायुप्रपतनजन्यशब्दविशेषः। यथाऽऽहवराहः-पवन: पवनाभिहतो गगनादवनौ यदा समापतति।
भवति तदा निर्घात: स च पापो दीप्तविहगरुतः।। इति श. चिं० २/१४०
भूकम्पप०-(पुं०) भूकम्पनम् (न०),भूचल:, (पुं०), भूचलनम् (न०), उत्पातविशेषः । भूचाल इति भाषा।
__ तदुक्तं शब्दार्थचिन्तामणौ-२-२४८ क्षितिकम्पमाहुरेके बृहदन्तर्जलनिवाससत्त्वकृतम्। भूभारखिन्नदिग्गजविश्रामसमुद्भवं चान्ये। अनिलोऽनिलेन निहत: क्षितौ पतन् स स्वनं करोत्यन्ये। केचित्त्वदृष्टकारितमिदमन्ये प्राहुराचा-:।। इति।।
तत्रैवास्य फलमाह-वशिष्ठः-यामक्रमाच्च भूकम्पो द्विजादीनामनिष्टदः। अनिष्टदः, क्षितीशानां सन्ध्ययोरुभयोरपि।। इति श०चिं० १-४४८।।
दिग्दाहः-(पुं०) उत्पातविशेषः। यथाऽऽहास्य लक्षणं दिशां राजभयाय पीतो देशस्य नाशाय हुताशवर्णः। यश्चारुणः स्यादपसव्यवायुः स सस्यनाशं च करोति दृष्टः।। योऽतीवदीप्त्या कुरुते प्रकाशं छायामभिव्यञ्जयतेऽर्कवद्यः। राज्ञो महद्वेदयते भयं स शस्त्र-प्रकोपं क्षतजानुरूप:।। इति श०चिं० १-११९६।
केतुप०-केतुः (पुं०), शिखी (इन्) (पुं०), स चोत्पातरूप:। अत्र केतुरित्येकवचनं जात्यभिप्रायेण। इति। ॥ इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना
डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे प्रकीर्णसर्गः अष्टादशः ॥१८॥
For Private and Personal Use Only