________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालसर्गः स संसर्पसज्ञक: सर्वशुभकर्माहः, अर्थात्तस्मिन् सर्वशुभकर्म कर्त्तव्यम्। क्षयमासादुत्तरो भाव्यधिमासस्तु अहंस्पतिसंज्ञकः, तस्मिन् सर्वशुभकर्म न कर्त्तव्यम्।
क्षयमासपर्यायाः-ऊनमासः, क्षयमास:, द्विसंक्रान्तिमासः, न्यूनमासः। संक्रान्तिपर्यायाः-संक्रमः, (पु०) संक्रमणम् (न०), संक्रान्ति: (स्त्री०)।
संक्रान्तिभेदाः-(१) विषुवती (मेष-तुला) संक्रान्ती, (२) अयन (कर्क-मकर) संक्रान्ती, (३) षडशीत्यानन (मिथुन-कन्या-धनु-र्मीन) संक्रान्तयः, (४) विष्णुपदाह्वयाः (वृष-सिंहवृश्चिक-कुम्भ) संक्रान्तयश्चैते संक्रान्तीनां चत्वारो भेदाः स्युः। तथा चोक्तं रामेण षडशीत्याननं चापनयुककन्याझषे भवेत्। तुलाजौ विष्वं विष्णपदं सिंहालिगोघट। इति।।
विषुवत्पर्यायाः-विषुणः, विषुवम्, विषुवान् (मतु०), विषुवत् (त्), विषुवती।
सम्पातपर्यायाः-सम्पात: (पु०) मिलनस्थानम्; सङ्गम:द्वयोः विषुवत्योः अयनयोः संक्रान्त्योर्वा मिलनस्थानं सम्यातो ज्ञेयः।
ऋतुपर्यायाः-ऋतुः, काल:, बीजम्, सतेरकम्, समयः, मासद्वयात्मकः कालः।
ऋतुभेदाः-(१) शिशिरः, (२) वसन्त:, (३) ग्रीष्मः, (४) प्रावृड् (ए) (स्त्री०), वर्षा (स्त्री०), (५) शरत् (द्), (स्त्री०), (६) हेमन्तश्चैते षड्तवः, स्युः।
शिशिरपर्यायाः-कम्पन:, कोटन:, कोडनः, तपः (अस्), तुहिनर्तुः, शिशिर:, शीत:, शैख:? शैशिरः, शैषः, सैषः, हिमकूटः।
वसन्तपर्यायाः-इध्मः, इष्यः, ऋतुराजः, कान्तः, कामसख:, कुसुमाकरः, पिकबान्धवः, पिकानन्दः, पुष्पकाल:, पुष्यमासः, पुष्पसमय:, पुष्पसारणः, बलाङ्कः, बलाङ्ककः, बलाङ्गः,, वसन्तः, सुरभिः।
ग्रीष्मपर्यायाः-आखोरः, उष्णः, उष्णकः, उष्णकालः, उष्णागम:, उष्णोपगमः, ऊष्मकः, ऊष्मा (अन्), उष्मागमः, ऊष्मायणः, ग्रीष्मः, धर्मः, तपः, तपर्तु, तपसमयः, तापन:, दिनाघ:, पद्मः, शुचिः।
वर्षर्तुपर्यायाः-अब्दकाल:, कालोक्षी (इन्), क्षरी (इन), घनागमः, जलधरमालाकाल:, जलार्णवः, तपात्ययः, प्रावृट् (ष्), प्रावृषा, मेघकालः, मेघकालागमः, वरिषा: (स्त्री०ब०), वर्तुः, वर्षा, वर्षाकाल:, वर्षाः (स्त्री०ब०), वार्षी।
शरदृतुपर्यायाः-कालप्रभातः, घनान्त:, घनात्ययः, प्रावृडत्यय:, मेघान्तः, वर्षावसानम्, शरत् (द्), शरदा।
हेमन्त पर्यायाः-ऊष्मसहः, प्रशल: (प्रसव:), प्रालेयः, रौद्रः, लोध्रः, शरदन्तः, शरदत्ययः, हिमागमः, हेमन्त:, हैमन:, हैमन्तः।
गोलपर्यायाः-गोलः। सायनार्कस्य मेषादिषड्राशिभ्रमणात्मकः कालः, तुलादिषड्राशिभ्रमणात्मकः कालश्चेति।। ___गोलभेदौ-(१) उत्तरगोल:, (२) दक्षिणगोलश्चैतौ गोलस्य द्वौ भेदौ स्याताम्। उक्तं च-गोलौ स्त: सौम्ययाम्यौ क्रियधटरसभे खेचरे' इति ग्र. ला.।
उत्तरगोलप०-उत्तरगोलः, उदग्गोल:, दक्षिणेतरगोलः, याम्यान्यगोलः, सौम्यगोलः।
दक्षिणगोलपर्यायाः-अनुदग्गोल:, उत्तरेतरगोलः, उदगन्यगोल:, दक्षिणगोल:, याम्यगोल:, सौम्येतरगोलः।
For Private and Personal Use Only