________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
ज्योतिर्विज्ञानशब्दकोषः पुण्यजनेश्वर: पौलस्त्यः, प्रमोदितः, बकः, मनुष्यधर्मा (अन्), मन्दः, महासत्त्व:, मायुराट् (ज), यक्षः, यक्षराजः, यक्षराट् (ज), यक्षेश्वरः, रत्नकरः, रत्नगर्भः, रत्नहस्तः, राजराज:, रुद्रमख:, वक्रनेत्रः, वटवासी (इन्), वटाश्रयः, वसुः, वित्तेशः, बिलः, वैश्रवणः, शम्भुमित्रम्, श्रीकण्ठसख:, श्रीदः, श्रेष्ठः, सत्यसङ्गरः, सितोदरः, सुप्रसन्नः, सोमः, स्वेश्वर: हर्यक्षः।
अर्हत्पर्यायाः-अर्हन् (त्), जिन:, शेषस्तु देवे। उपासकप०-आराधनाकरः, आराधनाकर्ता, उपासकः।
कुबेरपुरीप०-अलका, कुबेरपुरी, प्रभा, वसुप्रभा, वसुसारा, वसुस्थली, वस्वोकसारा, वस्वोकसारिका, वस्वौकसारा।
अधिपप०-अधिपः, नाथः, स्वामी शेषस्तु रवी अष्टप०-अष्ट (अन्) (त्रि०ब०)। दन्तप०-दन्तः, दशनः, द्विजः, रदः, शेषस्त्वन्यत्र।।
इच्छाप०-अभिलाष:, आशंसा आशा, इच्छा, ईप्सा, ईहः, ईहा, कांक्षा, काम:, कामना, गर्द्धः, तृट् (ए), तृष्णा, धनाया, मनोगवी, मनोरथः, मनोराज्यम्, रुचि:, लिप्सा, लोभः, वशः, वाञ्छा, स्पृहा।
वसु (धन)प०-अर्थः, ऋणम्, ऋक्थम्, धुम्नम्, द्रविणम्, द्रव्यम्, धनम्, पृक्थम्, रिक्थम्, रा: (रै), वसु, विटपः, वित्तम्, विभव:, सारम्, स्वम्, स्वापतेयम्, हिरण्यम्।
घटिताघटितहेमरूप्यप०-अकुप्यम्, कोशम्, कोशः, कोषः, हिरण्यम्। ताम्रादिकप०-कुप्यम्। आहत (मुद्रित) कुप्य कुप्यप०-रूप्यम्। निधिपर्यायाः-कुनाभिः, गूढकोशः, निधानम्, निधिः, रत्नकोशः, वर्णकविः, शेवधि:, सेवधिः।
निधिभेदाः-(१) पद्मः, (२) महापद्मः, (३) शंख:, (४) मकरः, (५) कच्छपः, (६) मुकुन्दः, (७) कुनन्दः, (८) नीलः, (९) खर्व: (चर्वाः) (अस्), इत्येते निधेर्नवभेदाः स्युः।
निक्षेपपर्यायाः-उपनिधिः, निक्षेपः, न्यस्तकः, न्यासः, स्थाप्य: 'धरोहर' इति भाषा। कुत्सितप०-कु (अ०), कुत्सितम्। बेर (शरीर) प०--अङ्गम्, कलेवरम्, काय:, तनुः बेरम्, शरीरम्, शेषस्तु गरुडे। कुबेरपत्नीप०-ऋद्धिः, कुबेरपत्नी, धनददारा। कुबेरमातृप०-इडविला, इलविला, कुबेराम्बा। कुबेरपितृप०-कुबेरजनकः, पौलस्त्यः, विश्रवाः। कुबेरभ्रातृप०-दशकण्ठः, मेघनादजनकः, रावणः। कुबेरस्थानप०-कैलासः, रजताचल:, हराद्रिः, शेषस्तु शिवे। कुबेरविमानप०-पुष्पम्, पुष्पकम्। कुबेरसारथिप०-मायुराजः। कुबेरोद्यानप०-चैत्ररथम्। कुबेरपुत्रभेदौ-(१) नलकूवरः, (२) मणिग्राव: (माणिग्रीतः), इत्येतौ कुबेरस्य द्वौ पुत्रौ स्त:। किन्नरप०-अश्वमुख:, किन्नरः, किम्पुरुषः, तुरङ्गवदनः, मयुः। यक्षप०-खाषेयः, गुह्यकः, पुण्यजन:, यक्ष:, राजा (अन्), वटवासी (इन्)।
For Private and Personal Use Only