________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिक्पालसर्गः
२४५ वायुपुत्रभेदौः-(१) भीमसेनः, (२) हनुमान् (मतु०), इत्येतौ वायोद्वौ पुत्रौ स्तः। भीममातृप०–कुन्ती, पाण्डुपत्नी, पृथा। हनुमन्मातृप०-अञ्जना, अञ्जनावती।
वायुभेदाः-(१) रूरू:, (२) भूभूः, (३) चण्डः, (४) प्रचण्डश्चेत्येते वायोश्चत्वारो भेदाः स्युः। ___तदन्यभेदाः-(१) आवहः, (२) प्रवहः, (३) संवहः, (४) विवहः, (५) उद्वहः, (६) अतिवहः, (७) प्राणवहः इत्येते वायोः सप्त भेदा: स्युः।
मतान्तरे तद्भेदा:-(१) भूवायुः, (२) आवहः, (३) प्रवहः, (४) उद्वहः, (५) संवहः, (६) सुवहः, (७) परावहश्चेति।
सिद्धान्तशिरोमणौ' तु-(१) आवाहः, (२) प्रवहः, (३) उद्वहः, (४) संवहः, (५) सुवहः, (६) परिवहः, (७) परावहश्चेति सप्त भेदाः स्युः। अथ शरीरस्था: प्राणादय: पञ्चवायवस्तत्क्रियाश्च यथा—(१) प्राण: (हदि) (अनप्रवेशनम्)। (२) अपान: (गुदे) (मूत्राद्युत्सर्ग:)। (३) समान: (नाभिमण्डले) (अन्नादिपचनम्)। (४) उदान: (कण्ठदेशे) (भाषणादिः)। (५) व्यान: (सर्वशरीरगः) (निमेषादिः), इत्येते शरीरस्थवायोः पञ्चभेदास्तत्क्रियाश्च।
अथ तस्य कृकरादयः पञ्चभेदास्तत्क्रियाश्च यथा-(१) कृकरः (क्षुत्करः), (२) देवदत्त: (जृम्भणकरः), (३) नागः (उद्गारकर:), (४) कूर्मः (उन्मीलननिमीलनकरः), (५) धनञ्जयः, (पोषणकर:), इत्येते तस्य कृकरादयः सक्रियाः पञ्च भेदाः स्युः।
वातसहतिप०-आ:सङ्गिनी, वातगुल्म:, वातमण्डली, वातसंहतिः, वाताली, वातुल:, वातूलः, वात्या। भाषायां तु 'ववण्डर, 'बबूला, इति च लौकैरुक्तम्।
मृदुवातप०-चिञ्चिलिकः, मृदुवात:, लिट् (ह ), लेढा (द), सौरतः। शिशिरर्तुजवायुपर्यायौ-पुटानिलः, शैशिरः। वसन्तर्तुजवायुप०-अमलपालिकः, दाक्षिणात्यः, मलयानिलः, वासन्तः। ग्रीष्मर्तुजवायुप०-गरवायुः, ग्रैष्मः, चरवायु:, चारवायु: निदाघजः, निदाघसमयानिलः।
वर्षर्तुजवायुप०-कङ्कावातः, झञ्झानिलः, झञ्झावातः, प्रावृषिजः, संक्रावातः, सवृष्टिकप्रावृड्भवानिल:।
शरदृतुजवायुप०-शरः, शारदः, सारण:। हेमन्त जवायुप०-जारवायुः, हेमन्तः।
कुबेरपर्यायाः-अर्हदुपासकः, अलकाधिप:, अष्टदन्तः, इच्छावसुः, इलविलापुत्र:, ईशवयस्य:, ईशसखः, ईहावसुः, उत्तराशापतिः, एककुण्डल:, एकपिङ्गः, एलविलः, ऐडविडः, ऐडविल: ऐल:, ऐलविल:, किन्नरेशः, किन्नरेश्वरः, किम्पुरुषेश्वरः, किशाली (इन्), कुडः, कुतनुः, कुबेरः, कुशरीरः, कुहः, केकराक्ष:, कैलासनाथः, कैलासौका: (अस्), गुह्यकः, गुह्यकेशः, गुह्यकेश्वरः, त्रिपात् (द्), त्रिशिराः (अस्), त्र्यम्बकसखः, द्रुमः धनकेलिः, धनदः, धनाधिप:, धनाध्यक्ष:, धनी (इन्), धनेश्वरः, नन्दीवृक्षः, नरवाहन:, निधानाध्यक्षः, निधानेश:, निधिनाथ:, निधिपाल:, निधीश्वरः, नृधर्मा (अन्), पद्मलाञ्छनः, पराविद्धः, पिशाचकी (इन्),
For Private and Personal Use Only