________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४१
दिक्पालसर्गः पाकयज्ञिकवह्निप०-सुलभः। अध्वरे दक्षिणाग्निप०-अन्वाहार्यपचन:, शुक्रः। पश्चिमेऽग्निप०-गार्हपत्य:, गृहपतिः, पवमानः। पूर्वेऽग्निप०-आहवनीयः, शंस्य:, हव्यवाहनः । लौकिकाग्निप०-आवसथ्यः, सभ्यः।
धूमपर्यायाः-अग्निवाहः, अम्भ:सूः, करमाल:, जीमूतवाही (इन्), दहनकेतनम्, धूम:, वायुवाहः, स्तरी: (स्त्री०)।
गन्यवासितधूमप०-धूपः। काष्ठप०-काष्ठम्, दलिकम्, दारु। समित्य०-इन्धनम्, इध्मम्, एधः, एध: (अस्), तर्पणम्, समित् (ध) (स्त्री०)। समिद्भेदा ग्रन्थान्तरेद्रष्टव्याः। होमप०-आहुतिः, देवयज्ञः, वषट्कारः, हवनम्, होत्रम्, होमः। होमकुण्डप०-हवित्री, होमकुण्डम्।
धान्यभेदाः-(१) यवाः, (२) गोधूमाः, (३) तिलाः, (४) कङ्गवः, (५) मुद्गका:, (६) श्यामाका:, (७) चणकाः, इत्येते धान्यानां सप्त भेदा: स्युः।
हव्यानप०-चरु:, हव्यपाकः, हव्यानम्।
धाय्याप०-धाय्या, सामेधेनी, अग्निसमिन्धने समित्प्रक्षेपणवह्रिज्वलने या ऋक्प्रयुज्यते सा 'धाय्या' सामधेनी च।
अग्निवाहन (छाग) ५०-अज:, छगः, छगल:, छागः, तुभः, पशुः, बस्त:, शुभः, स्तभः, स्तुभः।
अजाप०-अजा, गलस्तनी, छागिका, छागी, मञ्जा, सर्वभक्षा।
यमप०-अन्तकः, अर्कपुत्रः, अर्कसूनुः, उर्मिलापतिः, औडम्बर:, औदुम्बरः, कङ्कः, कर्मकरः, काल:, कालकुन्थः, कालकूटः, कालिन्दीसोदरः, कीनाशः, कृतान्तः, चित्रगुप्तः, जीवितेश:, दक्षिणदिक्पाल:, दक्षिणाधिपः, दक्षिणाशापतिः, दण्ड:, दण्डधरः, दण्डधारः, दण्डयाम:, दनः धर्मः, धर्मराजः, धर्मराट, धूमोर्णापति:, प (पा) परः, पितृपतिः, पीयुः, पुराणान्त:, प्रेतपतिः, प्रेतराट् (ज), भीमशासनः, मन्दः, महासत्य;, महिषध्वजः, महिषवाहनः, मृत्युः, यमः, यमन: यमराजः, यमराट, यमुनाग्रजः, यमुनाभ्राता (तृ), लुलायवाहः, विशीर्णपात् (द), विश्वप्सा: (आकारान्तः), वैवस्वतः शमन:, शीर्णपादः, शीर्णाघ्रिः, शीर्णाह्निः, श्राद्धदेव:, समवर्ती (इन्), सावित्रेय: सूरसूः, हरिः, हर्षणः।
यमपत्नीप०-उर्मिला, धूमोर्णा, विजया। यमपुरीप०-यमपुरी, संयमनी। यमलेखकप०-चित्रगुप्तः। यमप्रतीहारप०-वैध्यत:। यमविचारभूप०-कालीची, कालीमी। यमपञ्जिकाप०-अग्रसन्धानी, पञ्जिका।
यमदूतप०-कीलालपः, क्षपाट:, खसात्मजः नरविष्वणः, नृचक्षाः (अस), पलाशः, पलाशी (इन्), रात्रिमटः, विखुरः, शङ्कः, शमनीषदः, सन्ध्याबल:, हनूषः। .
यमदासनामनी-(१) चण्डः, (२) महाचण्डः, इत्येतौ यमस्य द्वौ दासौ स्याताम्। मृत्युपर्यायाः-अन्तः, काल:, नाश: निधनम्, मरणम्, मृतिः, मृत्युः, शेषस्तु कामदेवे।
For Private and Personal Use Only