________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
ज्योतिर्विज्ञानशब्दकोषः यमप०-कालः, यमः, शेषस्तु यमे। मदिराप०-मदिरा, मद्यम्, सुरा, शेषस्तु वरुणे। प्रियप०-प्रियः, वल्लभः। नन्दप०-कृष्णतात:, गोपमुख्यः, नन्दः, यशोदाजानि:, वसुदवसखा, व्रजेश्वरः। यशोदाप०-कृष्णजननी, नन्दपत्नी, यशोदा, विन्ध्यवासिनीमाता (तृ), व्रजेश्वरी। गोपप०-आभीरः, गोधुक् (ह्), गोपः, गोपालः, गोसंख्यः, वल्लव:।
गोपीप०-गोपवध, गोपसुता, गोपाङ्गना, गोपालिका, गोपिका, गोपी, राधासखी, व्रजाङना।
गोकुलप०-गोकुलम्, नन्दावास:, श्रीकृष्णनिवासग्रामः। व्रजभूमिप०-व्रजभूः, व्रजमण्डलम्। वृन्दावनपर्यायौ-वृन्दावनम्, श्रीकृष्णवास:। श्रीकृष्णजन्मपुरी (मथुरा) प०-मथुरा, मथूरा, मधुपुरी, मधुरा, मधुवनम्, मधूपघ्नम्।
नृपपर्यायाः--अर्थपति:, अवनीपतिः, इन:, इलेशः, क्षितिपः, क्ष्माभुक् (ज्), क्ष्माभृत् (द), दण्डधरः, नरदेवः, नरपः, नरपतिः, नरपाल:, नरेन्द्रः, नाभिः, नायकाधिपः, नृपः, नृपतिः, नृपाल:, पार्थः, पार्थिवः, पृथिवीशक्रः, प्रजापः, प्रजापतिः, प्रजेश्वरः, भूपः, भूपतिः, भूपाल:, भूभुक् (ज्), भूभृत् (त्), भूमिपः, भूमीन्द्रः, मध्यलोकेशः, महीक्षित् (द्), महीप:, महीपतिः, महीपालः, मूर्धाभिषिक्तः, मूर्धावसिक्तः, राट् (ज), राजा (अन्), लोकपाल:, स्कन्दः, स्कन्धः। उक्तं च हलायुधे-४२१
राजा राजन्यो राट् प्रजापतिः इति। श्लो० ४२१ अस्य टीकायां पृ० ५६४।
मथुरानृपप०-आहुकः, उग्रसेनः, कंसजनकः, कंसवतीतात:, देवकाग्रजः, देवकीपितृव्य:, श्रीकृष्णमातामहः।
नृपभेदाः-(१) मरुत्त: (आविक्षितः), (२) सुहो (हा) त्र: (आतिथिन:), (३) अङ्गः, (बृहद्रथः), (४) शिबिः (औशीनर:), (५) भरत: (दौष्यन्तिः ), (६) रामः (दाशरथिः), (७) भगीरथ: (गङ्गाजनक:), (८) दिलीप: (रघुजनकः), (९) मान्धाता (तृ) (यौवनाश्व:), (१०) ययाति: (नाहुषः), (११) अम्बरीषः (नाभाग:), (१२) शशबिन्दुः (चैत्ररथः), (१३) गयः (आमूर्तरयस:), (१४) रन्तिदेवः (साङ्कत्यः), (१५) सगर: (इक्ष्वाकुवंशजः), (१६) पृथु: (वैन्यः), इत्येते भारते षोडश महान्तो नृपतयः स्युः।
कंसपर्यायां-आहुकात्मजः, उग्रसेनसुतः, कंस:, कंसासोदरः, कृष्णमातुल:, जरासन्धजामाता (तृ)।
कंसाप०-आहुकतनुजा, उग्रसेनसुता, कंसभगिनी, कंसवती, कंसा, वसुदेवानुजपत्नी।
श्रीकृष्णनिवासपुरीप०-अब्धिनगरी, द्वारकः, द्वारका, द्वारकापुरी, द्वारवती, द्वारावती, द्वारिका, वनमालिनी।
श्रीकृष्णमालाभेदौ-(१) नन्दनमाला (२) वनमाला, चैते द्वे माले स्याताम्। श्रीकृष्णमंत्रिपर्यायौ-उद्भवः, पवनव्याधिः।
For Private and Personal Use Only