________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२३
देवसर्गः नागलोकपर्यायाः-अधोभुवनम्, तलम्, नागलोकः, पातालम्, बलिवेश्म (अन्), बलिसद्य (अन्), रसा, रसातलम्, वडवामुखम्।
पातालभेदाः-(१) अतलम्, (२) वितलम्, (३) सुतलम् (नितलम्) (४) तलातलम् (गभस्तिमत्) (मतु०), (५) महातलम्,(६) रसातलम् (सुतलम्), (७) पातालम्, इत्येते पातालम्, इत्येते पातालस्य सप्त भेदा: स्युः।
नागमातृपर्यायाः-कद्रुः, कद्रूः, नागमाता (तृ)। लोकप०-जगत्, जगती, पिष्टपम्, भुवनम्, लोकः, विश्वम्, विष्टपम्।
लोकभेदाः-(१) स्वर्लोकः, (२) मर्त्यलोकः, (३) पाताललोक, इत्येते लोकस्य त्रयो भेदाः स्युः।
तदन्यभेदाः-(१) भूलोक: (विष्वरेखा, (२) भुवर्लोकः, (३) स्वलोकः (आकाश:), (४) महर्लोकः, (५) जनलोकः, (६) तपोलोकः, (७) सत्यलोकः इत्येते लोकस्य सप्तभेदा:
भुवनभेदाः-(१) अतलम्, (२) वितलम् (नितलम्), (३) सुतलम् (वितलम्), (४) तलातलम् (गभस्तिमत्), (५) महातलम् - (तलम्) (६) रसातलम् (सुतलम्) (७) पातालम् (८) भू:, (९) भुवः, (१०) स्व:, (११) महः (स), (१२) जनः, (१३) तपः (स्) (१४) सत्यश्चेत्येते भुवनस्य चतुर्दशभेदाः स्युः।
तदुक्तमग्निपुराणेपातालानां च सप्तानां लोकानां च यदन्तरम्।
शुषिरं तानि कथ्यन्ते भुवनानि चतुर्दश।। इति।। छिद्रवाचकशब्दाः-छिद्रम्, द्वारम्, रन्ध्रम्।
छिद्रभेदाः-(१) द्वे नेत्रे, (२) द्वे श्रवणे, (२) द्वे नासे, (१) मुखम्, (१) मेहनम्, (१) पायुश्चैतानि नवच्छिद्राणि स्युः।
पन्नग (सर्प) पर्यायाः-अनिलाशनः, अहिः, आशीर्विषः, आशीविषः, उरगः, उरङ्गः, उरङ्गमः, कञ्चुकी (इन्), कद्रुजः, कद्रूसुतः, काकोदरः, काद्रवेयः, कुण्डली (इन्), कुम्भीनस:, गूढपात् (द्), गूढपादः, गोकर्णः, चक्री (इन्), चक्षुःकर्णः, चक्षुःबश्रवाः (अस्), चिकुर:, जलरुण्डः, जिह्मा:, जिह्मगः, दंष्ट्री (इन्), दन्दशूकः, दर्वीकरः, दर्वीधृत् (द्), दीभृत् (द्), दीर्घजिह्वः, दीर्घपृष्ठः, दीघरसन:, दृक्कर्णः, दृक्श्रवाः (अस), दृक्श्रुतिः, द्विजिह्वः, द्विरसन:, नाकुपद्मा (अन्), पनगः, पवनाशन:, पुष्करः, पृदाकु:, प्रचलाकी (इन्), फटी (इन्), फणकरः, फणधरः, पुणभृत् (द्), फणवान् (मतु०), फणाकरः, फणाधरः फणाभरः, फणाभृत् (द), फणावान्, (मतु०), फणी (इन्), फुल्लरीकः, बिलवासी (इन्), बिलशयः, बिलशयनः, बिलेवासी (इन्), बिलेशयः, बिलौका: (अस्), भुजगः, भुजङ्गः, भुजङ्गमः, भेकभुक् (ज्), भोगधरः, भोगभृत्द्), भोगी (इन्), लतारसनः, लेलिहानः, वायुभक्षः, विषधरः, विषध्रः, विषायुधः, विषास्यः, व्याड:, व्याल:, व्याह्न:, श्वसनाशन:, श्वसनोत्सुकः, समकोल:, सरीसृपः, सर्पः, हरिः, हीरः।
अरि (शत्रु) पर्याया:--अरिः, रिपुः, शत्रुः सपत्न:, शेषस्तु देवे।
For Private and Personal Use Only