________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
ज्योतिर्विज्ञानशब्दकोषः (अस), सर्पाराति:, सुधाहरः, सुधाहारकः, सुधाहत् (द्),सुवर्ण:-कः, सुपर्णीतनयः, सुमुखसूः, सुरेन्द्रजित् (द), सौपर्णेयः, स्वर्णकाय:, स्वर्णपक्ष:, हरिवाहनः।
गरुडपत्नीप०-उन्नतिः, उलूती। गरुडपुत्रप०-सुमुखः। गरुडपितृप०-कश्यपः, मारीच:। गरुडमातृप०-विनता, सुपर्णा, सुपर्णी।
पक्षिप०-अङ्गः, अगौका: (अस्), अण्डजः, अनेकजः, उत्पतः, ऊक:, कण्ठाग्निः, कीकसमुख:, खगः, गरुत्मान् (मतु०), चञ्चुभृत् (द्), चञ्चुमान् (मतु०), छुरण्डः, तुण्डी (इन्), धुग:, द्विजः, नगौका: (अस्), नभसङ्गपः, नभोगमः, नाडीचरणः, नीडज:, नीडी (इन्), नीडोद्भवः, पक्षी (इन्), पतग:, पतङ्गः, पतत् (द्), पतत्रि:, पतत्री (इन्), पत्ररथः, पत्रवाहः, पत्रवाहन:, पत्राङ्गी (इन्), पत्री (इन्), पिच्छन् (त्), पिपत्सन् (त्), पिपतिषन्, (त्), पिपतिषुः, पीतुः, पुगः, प्लावी (इन्), भसन् (त्), मदनः, मदुरः, मलूकः, मशाकः, रसनादः, रसनारदः, लोमकी (इन्), वशाकुः, वयाः, (अस्), वाजी (इन्), वातगामी (इन्), वारङ्कः, वारङ्गः, विः, विकिरः, विपुषः, विविष्किरः, विष्करः, विहगः, विहङ्गः, विहङ्गम:, विहायाः (अस्), वृक्षसद्मा (अन्), व्योमचारी (इन्), शकुन:, शकुनिः, शकुन्त:, शकुन्ति:, शरडः, शुकः, सरण्डः।
शाकुनिकपक्षिनामानि-(१) कपोत:, (२) काकः, (३) कुकुरः, (४) कुलाल:, (५) खञ्जनः, (६) खरः, (७) गृध्रः, (८) चक्रवाक: (९) चटक: (१०) चाषः (११) भाण्डरीकः, (१२) भारद्वाजः, (१३) मयूरः, (१४) वगुलः, (१५) शशघ्न:, (१६) शुकः, (१७) श्यामा, (१८) श्येनकः, (१९) श्रीकर्णः, (२०) हारीतश्चैतानि शाकुनिकपक्षिणां नामानि।
पक्षपर्यायाः-गरुन् (त्), छदः, छदनम्, तनूरुहम्, पक्षः, पतत्रम्, पत्रम्, पिच्छम्, वाजः।
पक्षिकुलायप०-कुलाय:, नीडम्, पञ्जरम्। स्वामिप०-राट् (ज), राजा (अन्), स्वामी (इन्), शेषस्तु रवौ। नागप०-काद्रवेयः, नागः, बहुफणसर्पः, मनुष्याकारकणालाङ्गेलयुक्तसर्पः। नागराजप०-अनन्तः, नागराजः, शेषः, शेषस्त्विहैव। नागपुरीप० –भोगवती।
नागभेदाः-(१) वासुकिः, (२) तक्षकः, (३) महापद्मः, (४) कालीय:, (५) कुलिकः, (६) कम्बलः, (७) बलाहकः, (८) अश्वतरश्चैते नागानामष्टौ भेदा: स्युः।
तन्नामान्तरभेदाः-(१) अनन्त:, (२) वासुकि: (सर्पराज:), (३) पद्मः, (४) महापद्म:, (५) तक्षक:, (६) कुलीरः, (७) कर्कट:, (८) शंख इत्येते नामान्तरेण नागानामष्टौ भेदा: स्युः।
तदन्ये भेदाः-(१) सुबुद्धः, (२) नन्दसारी (इन्), (३) कर्कोटकः, (४) पृथुश्रवाः (अस्), (५) वासुकिः, (६) तक्षकः, (७) कम्बल;, (८) अश्वतरः, (९) हेममाली (इन्), (१०) नरेन्द्रः, (११) वज्रदंष्ट्रः, (१२) विष, इत्येते नागानां द्वादशभेदाः स्युः।
For Private and Personal Use Only