________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवसर्गः
२२१ विकर्ष:-कः, विक्षेपः, विज्जाल:, विपाट, विशिख:, वीरतरः, वीरशंकुः, शर:, शरुः, शायकः, शिलीमुखः, सर:, सायकः, स्थूलक्ष्वेडः, स्थूलदण्डः। .
लोहबाणप०-अस्त्रसायकः, एषणः, काण्डगोचरः, नाराच:, प्रक्ष्वेडन:, प्रक्ष्वेदन:, प्रक्ष्वेलन:, प्रसन:, लोहनालः, सर्वलौहः।
कुसुम (पुष्प)प०-कुसुमम्, पुष्पम्, प्रसवः, प्रसूनम्, प्रसूनकम्, फुल्लम्, मणीचकम्, मणीवकम् सुमम्, सुमनः (अस्) (न०), सुमनसः, सूनम्।
धन्वप०–कार्मुकम्, चापः, धनुः, धन्व (अन्), शेषस्त्ववैव।
चित्तप०-अतिन्द्रियम्, अंत:करणम्, उच्चलम्, उच्चलितम्, गूढपथम्, गूढपदम्, चित्तम्, चेतः (अस्) (न०), मन: (अस्) (न०), मानसम्, स्वान्तम्, हत् (द्), हृदयम्।
चैत्रप०-चैत्रः, मधुः, शेषस्तु चैत्रमासे।
सखि (मित्र) प०--आक्रन्दः, आत्मीयः, आप्तः, इष्टः, निजः, पांशुलकः, प्रियः, मित्रम्, वयस्यः, सखा (खि), सरव्यम्, सद्रुचिः, सवया: (अस्) (पुं०), सहचर:, सहाय:, साप्तपदीन:-कः, सुहृत् (द्), स्निग्धः, स्नेह्यः, हितः।
उक्तं चास्य लक्षणम् 'अहिते प्रतिषेधश्च हिते चैव प्रवर्तनम्। व्यसने प्रतिषेधश्च हिते चैव प्रवर्तनम्। व्यसने चापरित्यागस्त्रिविधं सखि लक्षणम्।। अपिच-सन्त्यागासहनो बन्धुः सदैवानुगतः सुहृत्। एकक्रिया भवेन्मित्रं समप्राणः सखा भवेत्। इति। श०चिं १/६७९ शिखि (अग्नि) पर्यायाः-अग्नि, शिखी, शेषस्त्वग्नौ।
मृत्युप०-अन्तः, अत्ययः, अन्धकः, अमतः, अवसानम्, अस्तम्, कठमोषः, काल:, कालधर्मः, गमिः, दिष्टान्तः, दीर्घनिद्रा, नाशः, निधनम् (पुं०न०), निपातः, निमीलनम्, पञ्चता, पञ्चत्वम्, परलोकगमः, परलोकगमनम्, प्रलयः, प्राणवियोगः, भूमि-लाभ:, मरणम्, मृति: (स्त्री०), मृत्युः (पुं०स्त्री०), विलयः, संस्था।
रूपप०–मनोहराकृतिः, रूपम्, लावण्यम्, सुन्दरता, सौन्दर्यम्। अखप०-अस्त्रम्, आयुधम्, प्रहरणम्, शस्त्रम्, हेति: (स्त्री०)। विष्णुवाहन (गरुड) प०-अमृताहरण:, अरुणावरजः, अहिभुक् (ज), उन्नतीश:, उरगाशन:, उलूतीशः, कश्यपनन्दन:, कश्यपापत्यम्, कामायुः (उष्), काश्यपसुतः, काश्यपिः, खगेन्द्रः, खगेश्वरः, गरुडः, गरुत्मान् (मतु०), गरुडः, चिरात् (द), तरस्वी (इन्), तार्क्ष्य:, ताय॑नायकः, नागशत्रुः, नागान्तकः, नागाशन:, पक्षिराट् (ज्), पक्षिसिंहः, पक्षिस्वामी (इन्), पन्नगारिः, पन्नगाशनः, पवनाशनाशः, पुष्करः, भुजगान्तकः, भुजगाशन:, महापक्षः, महावीरः, महावेगः, महेन्द्रजित् (द्), मायुः, रसायन:, वज्रतुण्डः, वजिजित् (द), विनतातनयः विशालकः, विषापहः, विष्णुकेतुः, विष्णुरथः, विष्णुवाहनः, विष्णुविमानः, विहङ्गराजः, विहगाधिपः, वैनतेय:, शाल्मलिस्थः, शाल्मली (इन्), शिलाऽनीहः, शिलावास:, शिलौका:
For Private and Personal Use Only