________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवसर्गः
२१९ कर्मेन्द्रियभेदाः (१) पायुः (गुदम्), (२) उपस्थम् (भगंलिंगं च), (३) करौ (हस्तौ), (४) पादौ (चरणौ), वाक् (च्) (वाणी), चेत्येते कर्मेन्द्रियस्य पञ्च प्रभेदाः स्युः।
कर्मेन्द्रियविषयभेदा:'-उत्सर्गः (विसर्गः, विण्मूत्रत्यागः), (२) आनन्दः (कामजसुखम्), (३) दानम् (वितरणम्), आदानं च (ग्रहणम्), (४) गति: (गमनम्), (५) आलाप: (वाक्यार्थकम्)।
ज्ञानेन्द्रियप्रभेदाः-(१) श्रोत्रे (कर्णो), (२) त्वक् (च) (त्वचा), (३) चक्षुषी (नेत्रे), (४) रसना (जिह्वा), (५) नासे (नासिके), चेत्येते ज्ञानेन्द्रियस्य पञ्चप्रभेदाः स्युः। 'मनश्चेतिषड्धीन्द्रियाणि।
ज्ञानेन्द्रियविषयभेदाः-(१) शब्दः (शब्दग्रहणम्), (२) स्पर्श: (स्पर्शग्रहणम्), (३) रूपम् (रूपदर्शनम्), (४) रस: (रसग्रहणम्), (५) गन्धः (गन्धग्रहणम्), चेत्येते ज्ञानेन्द्रियस्य पञ्च विषयभेदाः स्युः।
इन्द्रियाधिष्ठातृदेवनामानि-(१) श्रोत्रयोः (दिशः), (२) त्वच: (वायुः), (३) चक्षुषोः (अर्कः), (४) जिह्वायाः (वरुणः), (५) नासिकयोः (अश्विनौ), एतानि पञ्च बुद्धीन्द्रियाधिष्ठातृदेवनामानि। (६) वाचः (अग्नि:), (७) बाह्वोः (इन्द्रः), (८) पादयोः (विष्णुः), (९) गुदस्य (मित्रः), (१०) मेदस्य (प्रजापतिः), एतानि पञ्च कर्मेन्द्रियाधिष्ठातृदेवनामानि। (११) मनस: (चन्द्रः) (उभयात्मकं मनः)।
विषयपर्याया:-अर्थः, इन्द्रियार्थः, गोचरः, विषयः, शब्दस्पर्शरूपरसगन्धारव्यः।
विषयभेदाः-(१०) शब्दः, (२) स्पर्शः, (३) रूपम् (४) रस:, (५) गन्धः-श्चेत्येते विषयस्य गोचरस्येन्द्रियार्थस्य च पञ्च भेदाः स्युः। यथा-कर्णगोचरः। त्वग्गोचरः। दृग्गोचरः। वाग्गोचरः। घ्राणगोचर इत्यादयः।
भूतपर्यायाः-पृथिव्यादिः, भूतः, महाभूतः।
भूतभेदाः-(१) खम् (आकाश:), (२) क: (वायुः), (३) शिखी (अग्नि: तेजो वा), (४) जलानि (आप:), (५) उर्वी (भूमि:)। 'ख-क-शिखि-जलो-व्यः' इति पञ्च महाभूतभेदाः।
भूतगुणभेदाः-(१) शब्दः, (२) स्पर्शः, (३) रूपम्, (४) रसः, (५) गन्धः। शब्दस्पर्श-रूप-रस-गन्धा-काशीदीनां मुख्यगुणाः स्युः।
क्षीर (दुग्ध) पर्यायाः-अमृतम्, ऊधस्यम्, कतृणम्, क्षीरम्, गव्यम्, गोरस:, जीवनम्, जीवनीयम्, ज्येष्ठम्, दुग्धम्, ध्यामकम्, पय: (अस्), पीथम्, पीयूषम्, पुंसवनम्, प्रस्रवणम्, बालसात्म्यम्, मधु, मधुज्येष्ठम्, योग्यम्, रसायनसमाश्रयम्, रसोत्तमम्, वारिसात्म्यम्, सरम्, सोमजम्, सोमरसोद्भवम्, सौम्यम्, स्तन्यम्, स्वादु।
(१) पायूयस्थं पाणिपादौ वाक्चेतीन्द्रियसंग्रहः। उत्सर्ग आनन्दादानगत्यालापाश्च तत् क्रिया इति। (२) मनः कर्मस्तथानेत्रं रसना च त्वचा सह। नासिका चेति षट् तानिधीन्द्रियाणि प्रचक्षते।। इति।।
For Private and Personal Use Only