________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
ज्योतिर्विज्ञानशब्दकोषः पीतपर्यायाः-पीतः, हरिद्राभः, शेषस्तु गुरौ। वस्त्रपर्यायाः-अम्बरम्, वसनम्, वस्त्रम्, शेषस्तु रवौ। श्वेतकमलपर्यायाः-पुण्डरीकम्, सिताम्भोजम्, शेषस्तु चन्द्र। अक्षिपर्यायाः-अक्षि (न्), नेत्रम्, शेषस्तु ब्रह्मणि। वारीश (समुद्र) पर्याया:-अकूपारः, अकूवार:, अपानाथ:, अपांप:, अपांपतिः, अपारः, अप्पतिः, अब्धिः, अम्बुधिः, अम्भोधिः, अम्भोनिधिः, अम्भोराशिः, अर्णवः, अवारपार:, इन्दुजनकः, उदधिः, उदन्वान् (मतु०), उर्वङ्गः, ऊर्मिकोशः, ऊर्मिमाली (इन्)।
कचङ्गलः, कधिः, कन्धिः, कीलालधिः, कूलङ्कषः, क्षीराब्धिः, क्षौणीप्राचीरम्। चन्द्रजनकः, जलदः, जलधिः, जलनिधिः, जलपः, जलराशि:, जलेन्द्रः।
तरणिः, तरन्तः, तरिष:, तरीयः, तरीषः, तारिषः, तिमिः, तिमिकोष:-ष:, तिमिमाली (इन्), तोयनिधिः, दानवगृहः, दारदः, दैत्यगृहः, द्वीपवान् (मतु०), धरणिप्लव:, धरणिपूरः, धुनिनाथः, धेन:, नदीकान्तः, नदीनः, नदीपतिः, नदीश:, नभस:, नित्य:, नीरधिः, नीरनिधिः।
पयोधिः, पयोनिधिः, पयोराशिः, पराकुवः, पलङ्कषः, पाथोधि:, पाथोनिधिः, पारावारः, पृथिवीप्लव:, पेरुः, प्राणभास्वान् (मतु०), मकराकरः, मकरालयः, मन्थिर:, महाकच्छ:, महाशयः, महीप्राचीरम्, महीप्रावरणम्, महीप्रावारः, महोदधिः, मितद्रुः।।
यादईशः, यादः पतिः, यादसांपतिः, यादोनाथ:, रत्नकोश:, रत्नराशिः, रत्नाकरः, लौहित्यः, वनमवाहः, वरुणावासः, वाङ्कः, वारानिधिः, वारिधि: वारिनिधिः, वारिराशि:, वारीशः, वार्धि:, वाहिनीपतिः, विततः, वीचिमाली (इन्)।
शैलगृहः, शैलशिविरम्, संवर:, समुद्रः, सरस्वान् (मतु०), सरितांपति:, सरित्पति:, सरिनाथः, सागरः, सिन्धुः, स्तम्भिः, स्तम्भी (इन्), स्रोत ईशः।
समुद्रभेदाः-(१) लवणसमुद्रः, (२) इक्षुस०, (३) सुरास०, (४) घृत्तस., (५) दधिस०, (६) दुग्धस०(७) जलस०चैते सप्तसमुद्राः सन्ति। तदन्यभेदास्तु ग्रन्थान्तरे द्रष्टव्याः।
धनुःपर्यायाः-अस्त्रम्, आयुधाग्र्यम्, आसः, इष्वासः, काण्डम्, कार्मुकम्, कोदण्डम्, गुणी (इन्), चापः, तृणता, त्रिणता, द्रुणम्, धनु (न०), धनुः (पुं०स्त्री०), धनुः (उष्) (अस्त्री), धनूः (स्त्री०), धन्वम्, धन्व (अन्), शरारोपः, शरावापः, शरासनम्, शाङ्गम्, शेषः, सरासनम्, स्थावरम्।
इन्द्रियपर्यायाः-अक्षम्, इन्द्रियम्, करणम्, खम्, ग्रहणम्, विषयस्रोत: (अस्), (न०), विषयायी (इन्), विषययि (इन्) (न०), स्रोत: (अस्) (न०), हृषीकम्।
इन्द्रियभेदौ-(१) कर्मेन्द्रियम्, (२) ज्ञानेन्द्रियम्, चैताविन्द्रियस्य द्वौ भेदौ स्तः। कर्मेन्द्रियपर्यायाः-कर्मेन्दियम्, कृत्येन्द्रियम्, क्रियेन्द्रियम्। ज्ञानेन्द्रियपर्यायाः-ज्ञानेन्द्रियम्, धीन्द्रियम्, बुद्धिन्द्रियम्।
For Private and Personal Use Only