________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ कालसर्गः-२ सामान्यकालपर्यायाः-अनुवेलम्, अनेहा (स्), अपष्ठुः, अवसरः, आमतिः, कर्माहः, काल:, क्षणः, जहः, तिथः, दिष्टः, पीथः, पीयु:, मः, मतिः, वारः, वेला, समय:, सर्वमूषकः, इति।
इष्टवाचकशब्दाः-अभिमतः, अभीप्सितः, अभीष्टः, इष्टः, ईप्सितश्चेत्येते त्रिलिङ्गाः स्युः।
इष्टकालपर्यायाः-अभिमतकालः अभिमतसमयः, अभीप्सितकालः, अभीप्सितसमयः, अभीष्टकालः, अभीष्टदिष्टः, अभीष्टसमयः, अभीष्टानेहा (स्), इष्टकाल:, इष्टदिष्टः, इष्टानेहा (स' 'प्सितकालः, ईप्सितदिष्टः, ईप्सितसमयश्चैते पुँल्लिङ्गाः स्युः।
दा:-(१) विनिमे (मि) ष: (सेकेण्ड), (२) निमे (मि) ष: (मिनट), (३) काष्ठादिः, (४) कला, (५)क्षणः, (६) मुहूर्तः, (७) होरा (घण्टा)(८) अहोरात्र: (दिन रात), (९) पक्ष:, (१०) मासः, (११) ऋतुः, (१२) अयनम्, (१३) गोलः, (१४) अब्दः (वर्षम्), (१५) युगम् (१६) मन्वन्तरम् (१७) कल्पः, (१८) कल्पान्तश्चैते कालस्याष्टादशभेदाः स्युः।
सूर्यसिद्धान्ते तु (१) मूर्तः (२) अमूर्तः (त्रुट्यादिः), एतौ द्वौ भेदावुक्तौ। उक्तं चप्राणादि: कथितो मूर्तस्रुट्याद्योऽमूर्तसंज्ञकः। इति ९/९९।
विनिमेषपर्यायाः-विनिमिषः, विनिमेषः, (सेकेण्ड इति भाषा)।
निमेशपर्यायाः-निमिषः, निमेषः, लवद्वयम्, नेत्रपक्ष्मणोर्व्यापारात्मकः कालः, लध्वक्षरोच्चारणमात्रकाल:, लवद्वयात्मकः कालो वा। (मिनट इति भाषा),
काष्ठापर्यायाः-काष्ठा, अष्टादशनिमेषात्मकः कालः। लवपर्याया:-काष्ठाद्वयम्, क्षणद्वयम्, लवः। कलापर्यायाः-कला, त्रिंशत्काष्ठात्मकः कालः पञ्च दशलवात्मन: कालो वा। लेशपर्याया:-कलाद्वयम्, लेशः।। क्षणपर्यायाः-क्षणः, त्रिंशत्कलात्मकः कालः, पञ्चदशलेशात्मकः कालो वा।
त्रुटिपर्यायाः-त्रुटि:, त्रुटी, क्षणद्वयात्मक: कालो, लवद्वयात्मक: कालो वा। मतान्तर तु निमेषद्वयम्।
विपलपर्यायाः-विपलम्, पलषष्टिभागैकभागः।
असपर्यायाः-असवः (पुं० ब०), प्राणा: (पुं०००) शरीरस्थपञ्चवायवः, दशगुर्वक्षरोच्चारणात्मकः कालः।
यथा-'दशगुळक्षरोच्चारकाल: प्राणः षडात्मकैः। तैः पलं स्यात्तु तत्षष्ट्या अहरसुपर्यायाः-अहः प्राणः, अहरसुः।
पलपर्यायाः-पलम्, विघटिका, विघटी, विदण्डः, विनाडिका, विनाडी क्वचित् 'चषा' इत्यपि दृश्यते। षट्प्राणात्मकः कालः।
घटीपर्यायाः-घटिका, घटी, दण्डः, धारिका, नाडिका, नाडी, नालिका, नाली, षष्टिदीर्घाक्षरोच्चारणात्मकः कालः, षष्टिपलात्मकः कालो वा।
यथा-दण्ड इत्यभिधीयते।। इतिशब्दार्थचिन्तामणिः। ११५५/२ षड्भिः प्राणैविनाडी स्यात्तत्पषट्या नाडिका स्मृता। नाडीष्ट्या तु नाक्षत्रमहोरात्रं प्रकीर्तितम्।।'
इति सूर्यसिद्धान्त: १/११,१२
For Private and Personal Use Only