________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२
ज्योतिर्विज्ञानशब्दकोषः
-
मुहूर्त्तपर्यायाः - घटीद्वयम्, दण्डद्वयम्, नाडीद्वयाम्, मुहूर्त्तः, द्वादशक्षणात्मकः कालः । होरापर्यायाः – वेला, होरा, सार्द्धधटीद्वयात्मकः कालः षष्टिनिमेषात्मकः कालो वा ( घण्टा इति भाषा ) ।
Acharya Shri Kailassagarsuri Gyanmandir
दिनपर्यार्यायाः - अंशम्, अंशकः, अंशकम्, अहः (अन्), कोकहित:, घस्रः, प्रंसः, दिनम्, दिवम्, दिवसम्, दिवस:, दिवा (अ.) द्यु, द्यौः, पद्मबन्धुः, भास्वर:, याममालः, रविध्वजः, वारः, वासरः, वास्रः, व्युष्टम्, पञ्चदशमुहूर्तात्मकः कालः ।
दिनभेदाः - (१) चान्द्रदिनम्, (२) नाक्षत्रदिनम्, (३) सौरदिनम्, (४) सावनदिनम्, चैते चत्वारो दिनभेदाः स्युः ।
चान्द्रदिनपर्याया:----ऐन्दवदिनम्, चान्द्रदिनम्, सौम्यदिनम्, एकतिथ्यात्मकः कालः । नाक्षत्रदिनपर्यायाः – आर्क्षदिनम्, औडवदिनम्, नाक्षत्रदिनम्, षष्टिनाड्यात्मकः कालः । सौरदिनपर्यायाः - आर्कदिनम्, ऐनदिनम्, सौरदिनम् । यथा
'सावनम्। दण्डाः षष्टिरहः स्वरवगुणांशाढ्यास्तदैनं भवेदिति ग्रन्थान्तरे । सावनदिनपर्यायाः -- कुदिनम्, मेदिनीदिनम्, सावनम्, सूर्यद्वयान्तर्गतः कालः । यथा – उदयादुदयं भानोर्भूमिसावनवासराः । इति सूर्यसिद्धान्ते ।
प्रभातपर्यायाः - अहर्मुखम्, उष: (अस्) (न०), उषा, कल्पम्, काल्यम्, गोसर्गः, दिनादिः, निशात्ययः, पूर्वाह्नः, पूर्वेद्युः, प्रगे (अ० ), प्रत्युष: (अस्) (न०), प्रत्यूषम् (नं०), प्रत्यूष: (पु० ), प्रभातम् प्रविसरः, प्रातः (र्) (अ०), प्राह्णः, वासरास्यम्, विभातम्, विहान, व्युष्टम्, सांयात्रिकम्, चैते दिनस्य प्रथमयामपर्याया: स्युः ।
सङ्गतपर्यायाः–सङ्गत:, सङ्गवः, चैतौ दिनस्य द्वितीययामपर्यायौ स्याताम्।
मध्याह्नपर्यायाः - दिनखण्डम्, दिनदलम्, दिनशकलम्, दिनार्द्धम्, दिवामध्यम्, मध्यन्दिनम्, मध्याह्नः, वासरमध्यम्, चैते दिनस्य तृतीययाम पर्यायाः स्युः ।
कुतपपर्यायाः - कुतप:, कुतुप:, दिवाष्टममुहूर्त:, दिवाष्टमांशः, श्राद्धकालः ।
पुण्याहपर्यायाः - पुण्याहम् (अह्नि पुर्ण्योऽश:)।
"
दिनान्तपर्यायाः – अपराह्नः, उच्छूर:, उत्सूर: दिनान्तम्, दिनात्ययः, दिनावसानम्, दिवावसानम्, विकालः, विकालकः, सवलिः, साय:, सायम् (अ०), सायाह्नश्चैते दिनस्य चतुर्थयामपर्यायाः स्युः ।
सन्ध्यापर्यायाः – पितृसूः, पितृप्रसूः, रुमा, सन्धा, सन्ध्या ।
सन्धिः ।
सन्धिपर्यायाः -- सन्धा, त्रिसन्ध्यपर्यायाः - उपवैणवम्, त्रिसन्ध्यम्, त्रिसन्ध्यकम्, वैणवम्।
त्रिसन्ध्यभेदाः – (१) प्राह्णः (२) मध्याह्नः (३) अपराह्नः (पराह्नः) चैते त्रिसन्ध्य भेदाः स्युः ।
दिवामुहूर्त नामानि – (१) महादेव:, (२) सर्प:, (३) मित्र:, (४) पितरः (पुं. ब.), (५) वसु:, (६) जलम् (७) विश्वेदेवाः (प. ब.), (८) अभिजित् (द्) (न०) (९) ब्रह्मा (अन्), (१०) इन्द्र:, (११) इन्द्राग्नी, (पुं.द्वि.) (१२) राक्षसः, (१३) वरुण:, (१४) अर्यमा (अन्), (१५) भगः, चैते दिवापञ्चदश मुहूर्त्ताः स्युः ।
रात्रिपर्यायाः - इन्दुकान्ता, उमा, उशा: (स्), उषा, कलापिनी, ? काली ? क्षणिनी, क्षपा,
For Private and Personal Use Only