SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० ज्योतिर्विज्ञानशब्दकोषः (१०) गण्ड:, (११) वृद्धि:, (१२) ध्रुव:, (१३) व्याघातः, (१४) हर्षण:, (१५) वज्रम्, (१६) सिद्धि:, (१७) व्यतिपातः (व्यतीपात :), (१८) वरीयान् ( ईयस्), (१९) परिघः, (२०) शिव:, (२१) सिद्ध:, (२२) साध्य:, (२३) शुभ:, (२४) शुक्ल:, (२५) ब्रह्मा (अन्), (२६) ऐन्द्र:, (२७) वैधृतिश्चेत्येते विष्कम्भादयः सप्तविंशतियोगाः स्युः । कतिघटीवर्ज्ययोगनामानि – विष्कम्भः, अतिगण्डः, शूलम्, गण्डः, व्याघातः, वज्र :, परिघश्चेति । सर्वत्याज्ययोगनामानि - व्यति (ती) पातः, वैधृतिश्चेति। तदुक्तम् ग्रन्थान्तरे विरुद्धसञ्ज्ञा इह ये च योगास्तेषामनिष्टः खलु पाद आद्यः । सवैधृतिस्तु व्यतिपातनामा सर्वेऽप्यनिष्टाः परिघस्य चार्द्धम् ।। तिस्त्रस्तु योगे प्रथमे सवज्रे, व्याघातसंज्ञे नव, पञ्च शूले । गण्डेऽतिगण्डे च षडेव नाड्यः, शुभेषु कार्येषु विवर्जनीयाः । । इति । तिथ्यादीनां क्षयवृद्धिभेदौ तिथिक्षयः, तिथिवृद्धिः । नक्षत्रक्षयः, नक्षत्रवृद्धिः । योगक्षयः, योगवृद्धिः । तिथ्यादीनां क्षय-वृद्धि-घटी प्रमाणं यथा - षड्वट्यस्तिथिक्षयप्रमाणम्, एवं पञ्चघट्यस्तिथिवृद्धिप्रमाणम्, तदुक्तं धर्म्मशास्त्रे - ' बाणवृद्धी रसक्षयः । इति । सांघ्रिवेदघट्यो नक्षत्रक्षय: ४ / १५ एवं सदलषङ्घट्यो नक्षत्रवृद्धिः ६ / ३० विज्ञेया । अष्टघट्यो योगक्षयः । तथा व्यंप्रियम घट्यौ योगवृद्धि १/४५/५५ प्रमाणं ज्ञेयम् । तदुक्तं मकरन्द विवरणे 'सांघ्रिसिन्धुरससिन्धुरप्रमा तारकातिथियुजां क्षयप्रमा । नाडिकासु सदलाङ्गमार्गणा व्यंघ्रिलोचनमिता मताचितिः । इति । ज्योतिर्विदाभरणेऽपि - 'वृद्धिक्षयौस्तः परमौ तिथौ सदा व्यर्द्धा रसाः सांघ्रिरसाश्च नाडिकाः । सनेमतर्काः सपदार्णवास्तु भेनिस्त्र्यंशदोषौ द्विरदा युतौ क्रमात् । इति । करणपर्यायाः – करणम्, कर्म्मवाटीखण्डम्, कर्मवाट्यर्द्धम्, कलाखण्डम्, कलादलम्, कलार्द्धम्, तिथिखण्डम्, तिथिदलम्, तिथ्यर्द्धम् चेति । करणभेदौ (१) चरकरणम् (२) स्थिरकरणम् चेति करणस्य द्वौ भेदौ स्याताम्। तत्रादौ चरकरणनामानि - (१) बव:, (२) बालव:, (३) कौलव:, (४) तैतिल:, (५) गर:, (६) वणिजः, (७) विष्टि:, चैतानि सप्तचरकरणानि स्युः । तदीशभेदा: - ( १ ) इन्द्र:, (२) ब्रह्मा अन्), (३) मित्र:, (४) अर्यमा (अन्), (५) भूः, (६) श्री:, (७) यमश्चैते चरकरणपतयः स्युः । स्थिरकरणनामानि – (१) शकुनि:, (२) चतुष्पदः (चतुष्पात), (३) नाग:, (४) किंस्तुघ्नः, चैतानि चत्वारि स्थिरकरणानि स्युः । विष्टिपर्यायाः – ईशजा, भद्रा, भैमिका, भैमी, विट् (घ्), विष्टिः, शम्भुजाः, शम्भुभवा । ' इति । ।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे पञ्चाङ्गसर्गः प्रथमः ॥ १ ॥ For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy