________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चाङ्गसर्गः कत्रयपर्यायः-कत्रयम्, 'रोहिण-स्वात्यभिजिन्ति।' इति। अजयुग्मापर्याया:--अजयुग्मा, भाद्रद्वयम्, भाद्रयुग्मम्, 'पूर्वाभाद्रोत्तराभाद्रपदे'। इति।
सवारयुवस्थिरभनामानि-(ध्रुवस्थिरभम्) रोहिणी, उत्तराफाल्गुनी, उत्तराषाढा, उत्तराभाद्रपदा, रविवारः। इति।
सवारचरचलभनामानि–(चरचलभम्) श्रवणः, धनिष्ठा, शतभिषा, पुनर्वसु, स्वाति:, सोमवारः। इति।
सवारोग्रक्रूरभनामानि–(उग्रक्रूरभम्) पूर्वाफाल्गुनी, पूर्वाषाढा, पूर्वाभाद्रपदा, भरणी, मघा, मङ्गलवारः। इति।
सवारमिश्रसाधारणभनामानि-(मिश्रसाधारणभम्)—कृत्तिका, विशाखा, बुधवारः।' इति।
सवारलघुक्षिप्रभनामानि-(लघुक्षिप्रभम्) अभिजित्, अश्विनी, तिष्यः, हस्तः, गुरुवारः। इति।
सवारमृदुमैत्रभनामानि (मृदुमैत्रम्)-अनुराधा, चित्रा, मृगशीर्षम्, रेवती, शुक्रवारः।' इति। सवरतीक्ष्णदारुणभनामानि–(तीक्ष्णदारुणाम्) आर्द्रा, आश्लेषा, ज्येष्ठा, मूलम्, शनिवारः।' इति।
पञ्चकनक्षत्रनामानि-(१) धनिष्ठोत्तरार्द्धम्, (२) शतभिषा, (३) पूर्वाभाद्रपदा, (४) उतराभाद्रपदा, (५) रेवती, चैतानि पञ्चकनक्षत्राणि स्युः।
त्रिपुष्करयोगकरनक्षत्रादिनामानि–(१) त्रिपादनक्षत्राणि (कृ., पु., उ. फा., वि., उ. पा., पू. भा.), (२) भद्रातिथयः, (३) क्रूरवाराश्चैतानि त्रिपुष्करयोगकरनक्षत्रादीनि ज्ञेयानि।
द्विपुष्करयोगकरनक्षत्रादिनामानि–(१) द्विपादनक्षत्राणि (मृगशिरा, चित्रा, धनिष्ठा)(२) भद्रातिथयः, (३) क्रूरवाराश्चैतानि द्विपुष्करयोगकरनक्षत्रादीनि ज्ञेयानि।
तारानामानि-(१) जन्म (न्), (२) सम्पत् (द), (३) विपत् (द), (४) क्षेमः, (५) प्रत्यरिः, (६) साधकः, (७) वधः, (८) मैत्रः, (९) अतिमैत्रश्चैते नव ताराः स्युः।
वर्यतारानामानि-(१) विपद्, (२) प्रत्यरिः, (३) वधश्चैतास्तिस्रस्तारा: शुभे वाः । इहानुषङ्गतस्तारा बोध्या:।
इह प्रसङ्गाद् भवारजयोगनामानि-(१) आनन्दः, (२) कालदण्डः, (काल:), (३) धूम्र:, (४) प्रजापति: (धाता), (५) सौम्यः, (६) ध्वांक्षः, (७) ध्वज: (केतुः), (८) श्रीवत्सः, (९) वब्रम्, (१०) मुद्गरः, (११) छत्रम्, (१२) मित्रम्, (१३) मानसम्, (१४) पद्मः, (१५) लुम्ब: (१६) उत्पात:, (१७) मृत्युः, (१८) काणः, (१९) सिद्धिः, (२०) शुभ;, (२१) अमृत:, (२२) मुसलम्, (२३) गदः, (२४) मातङ्गः, (२५) रक्षः (अस्) (राक्षस:), (२६) चर:, (२७) सुस्थिर: (स्थिरः), (२८) प्रवर्द्धमान: (वर्द्धमानः), चेत्येतेऽष्टाविंशतिभवारजयोगा: स्युः। एषामानयनज्ञानं तु 'मुहूर्त्तचितामणौ'--'दास्रादर्के' इत्यस्मिन् श्लोके द्रष्टव्यम्।
कतिघटीवqयोगनामानि-काणः, धूम्रः, ध्वांक्ष:, पद्मः, मुद्गरः, मुसल:, लुम्बः, वज्रञ्चेति। सर्वत्याज्ययोगनामानि-उत्पात:, कालदण्डः, मृत्युः, रक्षश्चेति।
विष्कम्भादियोगनामानि–(१) विष्कम्भः, (२) प्रीतिः, (३) आयुष्मान् (मतुबन्तः), (४) सौभाग्यः, (५) शोभन: (६) अतिगण्डः, (७) सुकर्मा (अन्), (८) धृतिः, (९) शूलम्,
For Private and Personal Use Only