________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवसर्गः
२१३ (५) ब्राह्मम्, (६) ब्राह्माण्डम्, (७) ब्राह्मवैवर्तम्, (८) वायव्यम्, (९) वामनीयम्, (१०) वैष्णवम्, (११) वाराहीयम्, (१२) आग्नेयम्, (१३) नारदीयम्, (१४) पाद्यम्, (१५) लैङ्गम्, (१६) गारुडम्, (१८) कौमम्, (१९) स्कान्दम्, चैतान्यष्टादश पुराणानि स्युः।
तदुक्तम्'मद्वयं' भद्वयं, चैव, व्रतयं, वचतुष्टयम्।
अनापलिङ्गकूस्कानि पुराणानि पृथक् पृथक्। इति। श०चिं०१/१८४ विद्यापर्यायौ--विद्या, शास्त्रम्।
विद्याभेदाः-(१) आन्वीक्षिकी (अस्यामात्मविज्ञानम्), (२) त्रयी (अस्यां धर्माधर्मो), (३) वार्ता (अस्यामर्थानर्थो), (४) दण्डनीति: (अस्यां नयानयौ चिन्त्यौ), चैते विद्यायाश्चत्वारो भेदाः स्युः।
तच्चतुर्दशभेदाः-(१) शिक्षा, (२) कल्पः, (३) व्याकरणम्, (४) छन्दः (अस), (५) ज्योति: (ए), (६) निरुक्ति:, (७) ऋक् (च्), (८) यजुः, (५), (९) साम (अन्), (१०) अथर्व (अन्), (११) मीमांसा, (१२) आन्वीक्षिकी (तर्कविद्या, न्याय), (१३) धर्मशास्त्रम् (स्मृतिः), (१४) पुराणम्, चैताश्चतुर्दशविद्याः स्युः, (१५) आयुर्वेदः, (१६) धनुर्वेदः, (१७) गान्धर्वः, (१८) अर्थशास्त्रं, चैता अष्टादश विद्याः स्युः।
ग्रन्थपर्यायौ--ग्रन्थः, द्वात्रिंशदक्षरी। महाकाव्यप०-महाकाव्यम्, सर्गबन्धः। नाटकप०-नाटकम्, महारूपकम्, गद्यपद्यप्राकृतभाषामयो ग्रन्थः।
इतिहासप०-इतिहासः, पुरावृत्तम्, पूर्वचरितम्। पूर्ववृत्तप्रतिपादकव्यासादिप्रणीतो भारतादिग्रन्थः।
आख्यायिकाप०-आख्यायिका, उपलब्धार्था, उपलब्धार्थकथा, कादम्बरीवासवदत्तादयः। आन्वीक्षिकीप०-आन्वीक्षिकी, तर्कविद्या, तर्कशास्त्रम्, न्यायः। कामन्दकीयप०-कामन्दकीयम्, कौटिल्या (चाणक्या) र्थशास्त्रम्। चम्पूप०-चम्पू: (स्त्री०), गद्यपद्यमयवाक्। खण्डकथाप०-खण्डकथा, वाङ्मयप्रभेदः। सन्दर्भप०-गुम्फः, ग्रन्थनम्, परिस्यन्दः, प्रतियत्नः, प्रबन्धः, रचना, श्रन्थनम्, सन्दर्भः। पादप०-अंह्निः, अंघ्रिः, क्रम:, क्रमण:, चरण:, चलनः, पत् (द्), पदः, पात् (द्)
पादः।
हस्तप०-करः, करिः, किष्कु:, कुलिः, तल:, पञ्चशाख:, पाणिः, भुजदलः, भुजादलः, शमः, शयः, शल:, सलः, हस्तः।
बाहुप०-कुलि: (पुं०), दोः (स्) (पुं०न०), दोषा (स्त्री), प्रवेष्टः, बाहः, बाहा (स्त्री), बाहुः, बाहू:, (स्त्री०), भुजः, भुजा (स्त्री)।
नेत्रपर्यायाः-अक्षि (न्), अम्बकम्, ईक्षणम्, गौः (गो), चक्षुः, (५), ज्योतिः (इष्), तपनः, दर्शनम्, दर्शनेन्द्रियम्, देवदीपः, दैवदीप:, दृक् (श्), दृशा, दृशिः, दृशी, दृष्टिः, नयनम्, नेत्रम्, प्रेक्षणम्, रूपग्रह:, लोचनम्, विलोचनम्, वीक्षणम्।
For Private and Personal Use Only