________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
ज्योतिर्विज्ञानशब्दकोषः च होराशास्त्रत: पृथङ् मन्यन्ते तन्मते ज्योतिश्शास्त्रं षट्स्कन्धात्मकं बोध्यम्।
निरुक्तपर्यायाः-निरुक्तम्, निरुक्तिः, निर्वचनम्, पदभञ्जनम्, व्याकरणपरिशिष्टम्। यास्कप्रणीतग्रन्थः।
शिक्षापर्यायाः-वेदशिक्षणप्रकारवान, महर्षिनारदपाणिनि प्रणीतग्रन्थः, शिक्षा। व्याकरणपर्यायाः-आम्नायाननम्, पदम्, वेदवदनम्, व्याकरणम्, शब्दशास्त्रम्, श्रुतिमुखम्।
व्याकरणभेदाः-(१) ऐन्द्रम्,(२) चान्द्रम्, (३) काशकृत्स्नम्, (४) कोमारम्, (५) सारस्वतम्, (६) शाकटायनम्, (७) आपिशलेयम्, (८) शाकलम्, (९) पाणिनीयम्, (१०) हैमम्, चैते व्याकरणशास्त्रस्य दशभेदाः स्युः।
शाब्दिकनामानि-(१) इन्द्रः, (२) चन्द्र:, (३) काशकृत्स्न:, (४) आपिशलि: (५) शाकटायन:, (६) पाणिनिः, (७) अमर: (अमरसिंह:), अधुनास्य व्याकरणं नोपलभ्यते। (८) जैनेन्द्रः (हेमचन्द्राचार्य:) चेत्यस्य शब्दानुशासनं व्याकरणशास्त्रमिदानीमुपलभ्यते।
वेदान्तपर्यायाः--उपनिषत् (द), ब्रह्मविद्या, वेदान्तः। सांख्यपर्याया:-कापिलम्, शांख्यम्, सांख्यम्।
मीमांसापर्यायाः-मीमांसा, विचारणा, वेदविचारणा, पूर्वमीमांसा, उत्तरमीमांसा च मीमांसापूर्वोत्तरभेदेन प्रसिद्ध शास्त्रं तज्जैमिनिव्यासप्रणीतम्। तदेव वाक्यम्। __षड्दर्शनभेदाः-(१) वैशेषिकम् (कणादस्य), (२) न्यायः (गोतमस्य), (३) मीमांसा (जैमिने:), (४) सांख्यम् (कपिलस्य), (५) पातञ्जलम्, (पतञ्जले:), (६) वेदान्तः (व्यासस्य), चैतानि षड्दर्शनानि स्युः।
धर्मशास्त्रपर्यायाः-अनुशासनम्, धर्मशास्त्रम्, धर्मसंहिता, स्मृतिः, मन्वादिप्रणीतशास्त्राणि।
धर्मशास्त्रप्रयोजकनामानि-(१) मनुः, (२) अत्रिः, (३) विष्णुः, (४) हारीत:, (५) याज्ञवल्क्यः , (६) उशना, (७) अङ्गिरा: (अस्), (८) यमः, (९) आपस्तम्ब:, (१०) संवर्तः, (११) कात्यायन:, (१२) बृहस्पतिः, (१३) पराशरः, (१४) व्यासः, (१५) खज, (१६) लिखित:, (१७) दक्षः, (१८) गौतमः, (१९) शतातपः, (२०) वशिष्ठ श्चैते विंशतिधर्मशास्त्रकारा:, तेष्वष्टादशैव प्रसिद्धधर्मशास्त्र (स्मृति) कारा: सन्ति, तेनाष्टादशस्मृतय एव ज्ञेयाः।
पुराणपर्यायाः-चिरन्तनम्, पञ्चलक्षणम्, पुराणम्, पुरातनम्, प्रतनम्, प्रत्नम्।
तल्लक्षणभेदाः-(१) सर्गः, (२) प्रतिसर्गः, (३) वंशः, (४) मन्वन्तराणि, (५) वंशानुचरितं, चैतत्पञ्चलक्षणात्मकं पुराणम्।
तदुक्तम्'सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च। वंशानुचरितं चेति पुराणं पञ्चलक्षण', इति। श.चि. १-१८४ पुराणनामनि-(१) मात्स्यम्, (२) मार्कण्डेयम्, (३) भाविष्यम्, (४) भागवतम्,
For Private and Personal Use Only