________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२११
देवसर्गः वेदपर्यायाः-आगमः, आम्नाय:, ऋषि. छन्दः (अस) (न०). त्रयी (स्त्री०), निगमः, ब्रह्म (अन्) (न०), वेदः, श्रुति (स्त्री० ), स्वाध्यायः।
प्रणवप०-ओङ्कारः, प्रणवः।
वेदभेदाः-(१) ऋक् (च), (२) यजुः, (५), (३) साम (अन्), (४) अथर्व (अन्), चैते वेदस्य चत्वारो भेदाः स्युः। ___ उपवेदभेदाः-(१)आयुर्वेदः (ऋगुपवेदः), (२) धनुर्वेदः (यजुरुपवेदः), (३) गान्धर्ववेदः (साम्न उपवेदः), (४) अर्थशास्त्रम् (अथर्वोपवेदः) चैते उपवेदानां चत्वार उपभेदा: स्युः।
अंगपर्यायाः-अङ्गम्, अपधनः, अवयवः, गात्रम्, प्रतीकः।
षडंगभेदाः-(१) पादौ, (२) हस्तो, (३) नयने, (४) श्रवणे, (५) नासिके, (६) मुखम्, चैतानि षडङ्गानि स्युः।
__षट्शास्त्रभेदाः-(१) छन्दः (अस्), (वेदस्य पादौ), (२) कल्प: (वेदस्य हस्तौ), (३) ज्योतिषम् (वेदस्य चक्षुषी), (४) निरुक्तम् (वेदस्य श्रोत्रे), (५) शिक्षा (वेदस्य नासिके), (६) व्याकरणम् (वेदस्य मुखम्), चैते शास्त्राणां षड्भेदा: स्युः।
छन्दः पर्यायाः-छन्द (अस्), पद्मम्, वृत्तम्।
छन्दोजातिभेदाः-(१) उक्ता, (२) मध्या, (३) प्रतिष्ठा, (४) अन्या, (५) सुप्रतिष्ठा, (६) गायत्री, (७) उष्णिक (ह्), (८) अनुष्टुप (भ), (९) बृहती, (१०) पंक्तिः (११) त्रिष्टुप् (भ), (१२) जगती, (१३) अतिजगती, (१४) शक्वरी, (१५) अतिशक्वरी, (१६) अष्टिः, (१७) अत्यष्टिः, (१८) धृतिः, (१९) अतिधृतिः, (२०) कृतिः, (२१) प्रकृतिः, (२२) आकृति:, (२३) विकृति: (२४) संकृति: (२५) अभिकृति: (२६) उत्कृतिश्चेते छन्दसां षड्विशतिजातिभेदाः स्युः।
श्रुतिजातिभेदा:-(१) तीव्रा, (२) कुमुद्वती, (३) मन्दा, (४) छन्दोवती, (५) दयावती, (६) रञ्जनी, (७) रतिका, (८) रौद्री, (९) क्रोधा, (१०) वज्रिका, (११) प्रसारिणी, (१२) प्रीति:, (१३) मार्जनी, (१४) क्षितिः, (१५) रक्ता, (१६) सन्दीपनी, (१७) आलापिनी, (१८) मदन्ती, (१९) रोहिणी, (२०) रम्या, (२१) उग्रा, (२२) क्षोभिणी, चैते श्रुतेविंशतिजातिभेदाः स्युः। ___ कल्पपर्यायाः-कल्पः, क्रमः, यज्ञविद्या, विधि:, बोधायनापस्तम्बाश्वलायनादिमहर्षिप्रणीतग्रन्थः।
ज्यौतिषप०-ग्रहणादिगणनशास्त्रम्, ज्योतिश्शास्त्रम्, ज्योतिषम्, ज्यौतिषम्, वेदचक्षुः।
ज्योतिश्शास्त्रभेदाः-(१) सिद्धान्त:, (२) संहिता, (३) होरा चैते ज्योतिषशास्त्रस्य वयौ मुख्यभेदाः स्युः।
यदुक्तम्'सिद्धान्त-संहिता-होरारूपस्कन्धत्रयात्मकम्' इति।
कैश्चित्तु(१) केरलीयम् (कृष्णीयप्रश्नशास्त्रम्), (२) शकुनम् (वसन्तराजादिप्रणीतशास्त्रम्), चेत्याभ्यां सहितं पञ्चस्कन्धात्मकमेतच्छास्त्रमुच्यते। ये होराविदो ‘मुहूर्तशास्त्रं' श्रीपतिकृतरत्नमालादि विद्यामाधवीयं
For Private and Personal Use Only