________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
ज्योतिर्विज्ञानशब्दकोषः सनत्कुमारपर्यायाः-आयुर्वेदसंहिताकारः, वैधात्रः, सनत्कुमारः, सनात्कुमारः। सिद्धानां चतुविंशतिभेदा अपि सन्ति ते तु ग्रन्थान्तरे द्रष्टव्याः।
जिनप०-अधीश्वरः, अनेकान्तवादी (इन्), अभयदः, अर्हन् (त्), आप्त:, केवली (इन्), क्षीणाष्टकर्मा (अन्), जगत्प्रभुः, जिन:, जिनेश्वरः, तीर्थकरः, तीर्थङ्करः, त्रिकालवित् (द्), देवाधिदेवः, परमेष्ठी (इन्), पारगतः, पुरुषोत्तमः, बोधिदः, भगवान् (मतु०), वीतरागः, शम्भुः, सर्वज्ञः, सर्वदर्शी (इन्), सर्वीय:, सार्वः, स्याद्वादी (इन्), स्वयम्भूः।
जिनभेदाः-(१) ऋषभः, (२) अजित:, (३) शम्भवः, (४) अभिनन्दनः, (५) सुमति:, (६) पद्मप्रभः, (७) सुपार्श्व:, (८) चन्द्रप्रभः, (९) सुविधिः, (१०) शीतल:, (११) ज्ञेयांस:, (१२) वासुपूज्य:, (१३) विमलः, (१४) अनन्तः, (१५) धर्म, (१६) शान्तिः, (१७) कुन्थुः, (१८) अरः, (१९) मल्लि:, (२०) मुनिसुव्रत:, (२१) नमिः, (२२) नेमिः, (२३) पार्श्व:, (२४) वीर, श्चेत्येते जिनानां चतुविंशतिभेदाः सन्ति।
भूतपर्याया:-बालग्रहः, भूत: (पुं०न०), भूतापुत्रः, रुद्रानुचर:, शिवपार्श्वगः। __गणदेवताभेदाः-(१) रुद्रा: (११), (२) वसवः, (८), (३) आदित्याः (१२), (४) विश्वेदेवाः (१०,१३), (५) साध्या: (१२), (६) मरुद्गणा: (४९), (७) तुषिता: (३६), (८) आभास्वराः (६५), (९), म (मा) हाराजिका: (२२०, २३६), (१०) वैकुण्ठा: (१४), (१२) सुशर्माण: (१०)।
तदुक्तं शेषनाममालानां (परिशिष्टे) (५,६,७, ३५३-४) 'द्वादशार्का, वसवोऽष्टौ, विश्वेदेवास्त्रयोदश।
षट्त्रिंशत्तुषिताश्चैव, षष्टिराभस्वरा अपि।। षट्त्रिंशदधिके माहाराजिकाश्च शते उभे। रुद्रा एकादशैकोनपञ्चाशद्वायवोऽपरे। चतुर्दश तु वैकुण्ठाः सुशाणः पुनर्दश। साध्याश्च द्वादशेत्याद्या, विज्ञेया गणदेवताः।। इति।
रुद्रभेदाः-(मात्स्ये)-(१) अजैकपादहिब्रध्रः, (२) विरुपाक्षः, (३) रैवतः, (४) हरः, (५) बहुरूपः, (६) त्र्यम्बकः, (७) सुरेश्वरः, (८) सावित्रः, (९) जयन्तः, (१०) पिनाकी (इन्), (११) अपराजित-श्चैते रुद्रस्यैकादश भेदाः सन्ति।
तद्भेदाः-(केशवे तु)-(१) अजैकपात् (द्), (२) अहिर्बुध्न्यः, (३) पिनाकी (इन्), (४) अपराजित:, (५) कपर्दी (इन्), (६) भुवनाधीश:, (७) भगः (व:), (८) स्थाणुः, (९) वृषाकपिः, (१०) गिरिश:, (११) वीरभद्र-श्चेत्येते रुद्रस्यैकादशभेदाः सन्ति।
वसुभेदाः-(भरतमते) (१) धरः, (२) ध्रुवः, (३) सोमः, (४) विष्णुः, (५) अनिल:, (६) अनल:, (७) प्रत्यूषः, (८) प्रभासश्चैतेऽष्टौ वसवः सन्ति।
For Private and Personal Use Only