________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
ज्योतिर्विज्ञानशब्दकोषः भाकूटः, भूधरः, भूध्रः, भूभृत् (द्), महीधरः, महीध्रः, वृक्षवान् (मतु०), व्यंशः, शिखरी (इन्), शिलोच्चयः, शृङ्गवान् (मतु०), शृङ्गी (इन्), शैलः, सानुमान् (मतु०), स्थावर:, स्थिर:, एते सर्वे नृलिङ्गाः।
हारावल्यां वर्षपर्वतभेदाः-(१) हिमवान् (मतु०), (२) हेमकूट:, (३) निषधः, (४) मेरुः, (५) चैत्र:, (६) कर्णी (इन्), (७) शृङ्गी (इन्), चैते सप्त वर्षविकृतयः, भाजकगिरयः
स्युः।
ग्रन्थान्तरे तु कुलाचलभेदाः-(१) हिमालयः, (२) हेमकूट:, (३) निषधः, (४) नीलः, (५) श्वेतः, (६) शृङ्गवान्, (मतु०), (७) माल्यवान् (मतु०), (८) गन्धमादनम्, चैतेऽष्टौ कुलाचलभेदा: सन्ति।
विष्णुपुराणे तु कुलपर्वतभेदाः-(१) महेन्द्रः (माहेन्द्रः), (२) शुक्तिः (शुक्तिमान्), (३) मलयः, (४) ऋक्षक: (ऋक्षपर्वतः), (५) विन्ध्यः , (६) सह्यः, (७) पारिया (पा) त्रश्चैते सप्तकुलपर्वतभेदा: सन्ति।
पूर्वपर्वतपर्यायाः-उदयः, उदयगिरिः, उदयपर्वतः, उदयाचलः, उदयाद्रिः, पूर्वपर्वत:, पूर्वाद्रिः, प्राक्पर्वतः।
पश्चिमपर्वतप०-अस्त:, अस्तमयाचलः, अस्ताचल:, अस्ताद्रिः, चरमाद्रिः, पश्चिमपर्वतः, पश्चिमाचल:।
देवयोनिभेदाः-(१) विद्याधरः, (२) अप्सरा: (अस्) (स्त्री०), (३) यक्ष:, (४) रक्ष: (अस्) (न०), (५) गन्धर्वः (६) किन्नरः, (७) पिशाच:, (८) गुह्यकः, (९) सिद्धः, (१०) भूतश्चैते देवयोनीनां दशभेदाः सन्ति। विद्याधरपर्याया:-कामरूपी (इन्), खेचरः, धुचरः, विद्याधरः, सत्ययौवनः, स्थिरयौवनः।
अप्सरःप०-अप्सरा: (अस्) (स्त्री०), अप्सरस: (स्त्री०ब०), देवगणिका, रतिमदा, रतेमदा, सुदमात्मजा, सुमदात्मजा, सुमदा, सुरस्त्री, स्वर्गस्त्री, स्वर्वधूः, स्वर्वेश्या।
हलायुधेऽप्सरसां भेदाः-(१) घृताची, (२) मेनका, (३) रम्भा, (४) उर्वशी, (५) तिलोत्तमा, (६) सुकेशी, (७) मञ्जुघोषा, चैते सप्ताप्सरसां भेदाः।
अन्यत्र तासां भेदा यथा(१) उर्वशी, (२) मेनका, (३) रम्भा, (४) घृताची, (५) पुञ्जिकस्थली, (६) सुकेशी, (७) मञ्जुघोषा, (८) महारङ्गवती, चैते (ऽष्टौ) भेदा: सन्ति।
वह्निपुराणे गणभेदनामाध्याये तु यथा
(१) ऊर्वशी, (२) मेनका, (३) रम्भा, (४) मिश्रकेशी, (५) अलम्बुषा, (६) विश्वाची, (७) घृताची, (८) पञ्चचूडा, (९) तिलोत्तमा, (१०) भानुमती, (११) अबला, (१२) वर्चा, चैते द्वादशभेदा: सन्ति।
स्त्रीपर्यायाः-अनुदरा, अबला, जोषा, जोषित् (द), जोषिता, नारी, पयोरुहचक्षुः, प्रतीपदर्शिनी, मण्डयन्ती, महला, महिला, महिली, महेला, महेलिका, महेली, मेहला,
For Private and Personal Use Only