________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवसर्गः
ताः, (७) राजर्षिः (ऋतुपुर्णादयः) चैते ऋषीणां सप्तभेदा: सन्ति।
सुरर्षिभेदाः-(१) नारदः, (२) पर्वतः, (३) भरतः, (४) देवतः, (५) कचः, (६) तुम्बुरुः, इत्यादयः।
नारदपर्यायः-कपिवक्त्रः, कलहप्रिय:, कलिकारक:, देवब्रह्मा (अन्), देवलः, नारदः, पिशुनः, विधातृभूः।
सप्तर्षिभेदाः-(१) मरीचि:, (२) अत्रिः, (३) पुलहः, (४) पुलस्त्यः , (५) ऋतुः, (६) अङ्गिरा: (अस्), (७) वशिष्ठश्चेते सप्तर्षीणां भेदा: सन्ति।
सप्तर्षिपत्नीभेदाः-(१) सम्भृतिः, (२) अनसूया, (३) क्षमा, (४) प्रीतिः, (५) सन्नतिः, (६) लज्जा, (७) अरुन्धती, चैता मरीचे: क्रमात्सप्तर्षीणां पत्न्याः सन्ति।
ब्रह्मर्षिभेदाः-(१) मरीचि:, (२) अत्रि:, (३) अङ्गिरा: (अस्), (४) पुलस्त्यः , (५) पुलहः, (६) ऋतुः, (७) भृगुः, (८) दक्षः, (९) वसिष्ठश्चेत्यादयः।
वशिष्ठपर्यायाः-अक्षमालापतिः, अरुन्धतीजानि:, वशिष्ठः, वसिष्ठः। वशिष्ठपली०--अक्षमाला, अरुन्धती। ज्योतिष्कदेवनाम-ज्योतिष्काः।
ज्योतिष्कदेवभेदाः--(१) चन्द्रः, (२) अर्कः, (३) ग्रहाः, (४) नक्षत्राणि, (५) तारकाश्चेत्येते ज्योतिष्कदेवानां पञ्चभेदा: सन्ति।
देवपथपर्यायाः-छायापथः, छायामार्गः, देवपथः, देवमार्गः, नभ: सरित् (द्), सुराध्वा (अन्), सोमधारा। ___'छायापथो नाम ज्योतिश्चक्रमध्यवर्ती कश्चित्तिरश्चीनोऽवकाश: इति मल्लिनाथः। 'देवैरर्चितादिभिर्गमयितृत्वेनाधिकृतैरुपलक्षितः पन्था देवपथ उच्यते। देवानांपन्था।
वनपर्यायाः-अटवी (स्त्री०), अरण्यम्, कक्षः, काननम्, कान्तारम्, गहनम्, झषः, दवः, दाव:, वनम्, वाक्षम्, विपिनम्, षण्डम्, सत्रम्।
उपवनपर्यायाः-अपवनम्, आरामः, उपवनम्, वेलम्। उद्यानपर्यायाः-आक्रीड:, उद्यानम्। ब्राह्यारामपर्यायाः-पौरकः, बाह्यारामः। गृहारामपर्यायाः-गृहारामः, निष्कुटः। राज्ञीक्रीडोद्यानपर्यायाः-प्रमदवनम्। पुष्पवाटीपर्यायाः-पुष्पवाटिका, पुष्पवाटी, वृक्षवाटिका, वृक्षवाटी। क्षुद्रारामपर्याया:-क्षुद्रारामः, प्रसीदिका। वृक्षपर्यायाः-तरुः, द्रुमः, वृक्ष: शाखी शेषस्तु वास्तुविचारे।
सरोवरपर्याया:-कासारः, तटाकः, तडाकः, तडागः। पद्माकरः, सर: (अस्) (नि०), सरसम्, सरसी (स्त्री०), सरोवरः।
अल्पसरोवरपर्यायाः-तल्लः, पल्वलः, वेशन्तः।
अगस्त्यपर्याया:-अगस्ति:, अगस्त्यः, आग्निमारुत:, आग्नेयः, इल्वलारि:, उदयनः, और्वशेयः, कलशीसुतः, कुम्भभवः, कुम्भयोनि:, कुम्भसम्भवः, क्वाथिः, घटज:, घटोद्भवः, १४ ज्यो.वि.शब्दकोष
For Private and Personal Use Only