________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
ज्योतिर्विज्ञानशब्दकोषः
'णिजि' परस्मैपदे लटि-दर्शयति, दर्शयत:, दर्शयन्ति। वि०लि०-दर्शयेत्, दर्शयेताम, दर्शयेयुः। यथा'दर्शयेदिविचरं दिवि के वा' इति सि०शि०।
आत्मनेपदे
लटि-दर्शयते, दर्शयेते, दर्शयन्ते। वि०लि०-दर्शयेत, दर्शयेयाताम्, दर्शयेरन्। 'ईक्ष्' दर्शने (देखना)।
(भ्वादौ) आत्मनेपदे (अ०स०) लटि-ईक्षते, ईक्षेते, ईक्षन्ते। यथा-न मेचकं चान्द्रकमीक्षते यः' इति वि०१०। वि०लि०-ईक्षेत, ईक्षेयाताम्, ईक्षेरन्। 'निर् + ईक्ष', प्र + ईक्ष अथवा वि + ईक्ष' = दर्शनं (देखना)।
(भ्वादौ) आत्मनेपदे (अ०स०) लटि-निरीक्षते, निरीक्षेते, निरीक्षन्ते। प्रेक्षते, प्रक्षेते, प्रेक्षन्ते। वीक्षते, वीक्षेते, वीक्षन्ते। वि०लि०-निरीक्षेत, निरीक्षेयाताम्, निरीक्षेयेरन्। प्रेक्षेत, प्रेक्षेयाताम्, प्रेक्षेरन्। वीक्षेत, वीक्षेयाताम्, वीक्षेरन्। 'लोक' दर्शने-(देखना)।
(चुरादौ) परस्मैपदे (स०) लटि-लोकयति, लोकयत:, लोकयन्ति। वि०लि०-लोकयेत्, लोकयेताम्, लोकयेयुः। 'अव + लोकृ', आ + लोक्, परि + लोक अथवा वि + लोक = दर्शने (देखना)।
(चुरादौ) परस्मैपदे (स०) लटि-अवलोकयति, अवलोकयतः, अवलोकयन्ति। यथा-'त्रिदशत्रिकोणचतुरस्रसप्तमान्यवलोकयन्ति चरणाभिवृद्धितः। इ०बृ०जा०। वि०लि०-अवलोकयेत्, अवलोकयेताम्, अवलोकयेयुः। लटि-आलोकयति, आलोकयतः, आलोकयन्ति। परिलोकयति, परिलोकयत:, परिलोकयन्ति। विलोकयति, विलोकयतः, विलोकयन्ति। वि०लि०-आलोकयेत् आलोकयेताम, आलोकयेयुः। यथा-छायां बिधोर्न ध्रुवमृक्षमालामालोकयेत्' इ०वि०वृ०। वि०लि०-परिलोकयेत्, परिलोकयेताम्, परिलोकयेयुः। विलोकयेत्, विलोकयेताम्, विलोकयेयुः। यथा--'विलोकयेद् व्योमचरं किलैवं जले विलोमं तदपि प्रवक्ष्ये। इ०सि०शि०।
'श्रु' श्रवणे (सुनना)। (भ्वादौ) परस्मैपदे (स०)
लटि-शृणोति, शृणुतः, शृण्वन्ति। वि०लि०-शृणुयात्, शृणुयाताम्, श्रुणुयुः। यथा'नाकीर्णकर्णः शृणुयाच्च घोषं तौ वा सुभुक्तोऽपि धृतिं न धत्ते।' इ०वि०वृ०। 'यां वाचं शृणुयुस्तदर्थसदृशीसिद्धिः किलोपश्श्रुतौ' इति च वि०१०।
'ज्ञा' अवबोधने (जानना)। (भ्वादौ) परस्मैपदे (स०)
लटि-(प्र०पु०) जानाति, जानीतः, जानन्ति। (म०पु०) जानासि, जानीथः, जानीथा (उ०पु०) जानामि, जानीवः, जानीमः। यथा-जानासि चेद्वर्गधनौ विभिन्नौ' इ०ली०व०। वि०लि०-जानीयात्, जानीयाताम्, जानीयुः। क०ज्ञायते। 'णिजि’-ज्ञापयति-ते।
For Private and Personal Use Only