________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८७
धातुसर्गः लटि-अत्ति, अत्त:, अदन्ति। वि०लि०-अद्यात्, अद्याताम, अद्युः। यथा'अशुभलत्तितमत्ति तदूढयोः' इति वि०१०।
'अश्' भोजने (भोजन करना, खाना।) (भ्वादौ) परस्मैपदे-(स०)। लटि-अश्नाति, अश्नीतः, अश्नन्ति। वि०लि०-अश्नीयात्, अश्नीयाताम्, अश्नीयुः। 'भुज्' पालनाभ्यवहारयोः (खाना, पालनकरना) (रुधादौ परस्मैपदे--(स०)
लटि-भुनक्ति, भुङ्क्तः, भुञ्जन्ति। यथा—'यदीन्दुराक्रम्य पुनर्भुनक्ति, इति वि०७०। वि०लि०-भुङ्ग्यात्, भुज्याताम्, भुज्युः।।
आत्मनेपदेलटि-भुङ्क्ते, भुञ्जाते, भुञ्जते। वि०लि०-भुञ्जीत, भुञ्जीयाताम्, भुञ्जीरन्। 'पा' पाने (पीना)। (भ्वादौ) परस्मैपदे-(स०)
लटि-पिबति, पिबतः, पिबन्ति। यथा-षड्भागाश्चैव नद्यां पिबति च सलिलं सप्तमांशेन मिश्रः' इति ली०व०। यथा—'सुसलिलमिह मा निम्नगायाः पिबन्ति इ०० का०। वि०लि०पिबेत् पिबेताम्, पिबेयुः। यथा-पिबेयुरादित्यमुखाः सुधां ग्रहाः इति०ग्रं०का०।
'पीङ्' पाने (पीना)। (दिवादौ) आत्मनेपदे--(स०)
लटि-पीयते, पीयेते, पीयन्ते। वि०लि०-पीयेत, पीयेयाताम्, पीयेरन्। यथापीयन्ते मदिरा नराः सवनिता नित्यं विवाहोत्सवे इ००।
'पिष्लू' संचूर्णने (पीसना)। (रुधादौ) परिसमैपदे—(स०)
लटि–पिनष्टि, पिष्टः, पिषन्ति। यथा—यस्यच्छाया पुष्पवन्तौ पिनष्टि' इति वि०वृ०। वि०लि०-पिंष्यात्, पिंष्याताम्, पिंष्युः।
'डु पचष्' पाके (पकाना)। (भ्वादौ) परस्मैपदे-(स०) लटि-पचति, पचत:, पचन्ति वि०लि०-पचेत्, पचेताम्, पचेयुः।
लटि-पचते, पचेते, पचन्ते। वि०लि०-पचेत, पचेयाताम्, पचेरन्। क०पचते। णि पाचयति-ते।
परि + पचष् णिजि (चुरादौ) परस्मैपदे-(स०)
लटि-परिपाचयति, परिपाचयतः, परिपाचयन्तिः। यथा-‘एवं परस्परगता: परिपाचयन्ति' इ०वृ०जा०। वि०लि०-परिपाचयेत्, परिपाचयेताम परिपाचयेयुः। 'दृशिर्' प्रेक्षणे (देखना)। (भ्वादी) परस्मैपदे-(स०)
लटि–पश्यति, पश्यतः, पश्यन्ति। यथा-'यदि न पश्यति नश्यति तत्कृतम्' इ०वि०१०। ‘पश्यतोऽङ्ग पपीन्दुजौ' इति ग्रं०का०। अथवा
'तनुगृहं बलिनौ यदि पश्यतः' इ०म०चिं०। ‘पश्यन्ति सप्तमं सर्वे' इत्यु०प्र० ३। वि०लि०-पश्येत्, पश्येताम्, पश्येयुः। यथा—‘पश्येज्जलादौ प्रतिबिम्बितं वा' इ०प०ला। पश्येयुरुग्राः स्मरगी कवीन्दू' इ० ग्रं०का०। क० दृश्यते।
For Private and Personal Use Only