________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
ज्योतिर्विज्ञानशब्दकोषः यथा-बलवद्ग्रहदोषकारणैर्मनुजानां जनयत्यनेत्रताम्।। इ०बृ०जा०। षूङ् प्राणिप्रसदे (प्रसव करना, जन्म देना)। (दिवादौ) आत्मनेपदे (अ०)। लटि-सूयते, सूयेते, सूयन्ते। वि०लि०-सूयेत, सूयेयाताम्, सूयेरन्। 'प्र+घूङ्' प्राणिप्रसवे (प्रसव करना, जन्म देना)। (दिवादौ) आत्मनेपदे (अ०) लटि-प्रसूयते, प्रसूयेते, प्रसूयन्ते। वि०लि०-प्रसूयेत, प्रसूयेयाताम्, प्रसूयेरन्। यथा-सोषरभूमिषु च प्रसूयते' इति बृ०जा०।
'अय्' गतौ (गमनं, ज्ञानं, प्राप्तिः) (जाना, जानना, लाभ)। (भ्वादौ) आत्मनेपदे (अ०स०)
लटि-अयते, अयेते, अयन्ते। वि०लि०-अयेत, अयेयाताम्, अयेरन्। 'पद्' गतौ (चलना)। दिवादौ-आत्मनेपदे-(अ०)। लटि-पद्यते, पद्येते, पद्यन्ते। वि०लि०-पद्येत, पद्येयाताम्, पोरन्। 'व्रज' गतौ (जाना)। (भ्वादौ-परस्पैपदे-(स०)। लटि-व्रजति, व्रजत:, व्रजन्ति। वि०लि०-व्रजेत्, व्रजेताम्, व्रजेयुः। यथा-'निर्विशङ्कमरिणा जयं व्रजेत् इति वि०मा०। 'इण्' गतौ (जाना)। (अदादौ-परस्मैपदे-(स०अ०)। लटि-एति, इत:, यन्ति। वि०लि०-इयात्, इयाताम्, इयुः। यथा-'नो पूर्वराशिं गुरुरेति वक्रितः' इति मु०चिं०१। अथवा---'मित्रत्वमेति रिपुरस्य तथैकराशौ' इति वि०मा०।
उप + इण् अथवा सम + इण् अथवा सम् + उप + इण् प्राप्तौ (प्राप्त करना)। (अदादौ) परस्मैपदे (स०अ०)।
लटि-उपेति, उपेतः, उपयन्ति। वि०लि०-उपेयात्, उपेयाताम्, उपेयुः।
यथा-'नरेण संयोगमुपैति कामिनी'। इति बृ०जा०। लटि–समेति, समितः, संयन्ति। वि०लि०-समियात्, समियाताम्, समियुः। यथा--'लग्नं समेत्यु' भयतः पृथुरोमयुग्मम्' इति बृ०जा०। लटि-समुपैति, समुपेत:, समुपयन्ति। वि०लि०-समुपेयात्, समुपेयाताम्, समुपेयुः। यथा-'क्षिप्रं विनाशं 'समुपैति' जात:' इति बृ०जा०।।
'चर्' गतिभक्षणयोः (गमन, चलना, भक्षण करना) (भ्वादौ) परस्मैपदे-(अ०स०)। लटि-चरति, चरतः, चरन्ति। वि०लि०-चरेत्, चरेताम्, चरेयुः। यथा-'उदयमेति यदा दिवि तत्परं 'चरति' केतुरपि प्रतिवासरम्।' इति वि०वृ०। 'सम् + चर्' सञ्चरणे (चलना)। (भ्वादौ) परस्मैपदे-(अ०स०)। लटि-सञ्चरति, सञ्चरतः, सञ्चरन्ति। वि०लि०-सञ्चरेत्, सञ्चरेताम्, सञ्चरेयुः। 'वि + चर्' विचरणे। (विचरना)। (भ्वादौ) परस्मैपदे--(अ०स०)। लटि-विचरति, विचरतः, विचरन्ति। वि०लि०-विचरेत्, विचरेताम्, विचरेयुः।
For Private and Personal Use Only