________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७८
ज्योतिर्विज्ञानशब्दकोषः
यथा - हस्ते प्रयाय पवने विदधातु यात्राम्' इति वि०मा० ।
आत्मनेपदे
यथा
लटि - विधत्ते, विदधाते, विदधते । वि०लि० – विदधीत, विदधीयाताम्, विदधीरन् । -'दृष्ट्वा विधत्ते वशवर्तिनं तम्' इति । 'विदधीत गुरौ लग्ने स्वांशस्थे' इति च वि०मा० । कर्मकर्तृके लटि - विधीयते, विधीयेते, विधीयन्ते । यथा - 'विधीयतेऽन्यैर्नियमात्तदन्वयम्' इति वि०मा० ।
Acharya Shri Kailassagarsuri Gyanmandir
'सम् + पद्' सम्पादने (करना) । (दिवादौ ) – 'णिजि' (स०अ० ) । परस्मैपदेलटि - सम्पादयति, सम्पादयतः, सम्पादयन्ति । वि०लि०-सम्पादयेत्, सम्पादयेताम्, सम्पादयेयुः।
'आत्मनेपदे
-
लटि–सम्पादयते, सम्पादयेते, सम्पादयन्ते । वि०लि० – सम्पादयेत, सम्पादयेयाताम्, सम्पादयेरन्।
'डुकृञ्' करणे (करना) । (तनादौ ) – परस्मैपदे – (स० ) ।
लटि - (प्र०पु०) करोति, कुरुत:, कुर्वन्ति । ( म०पु० ) करोषि कुरुथ:, कुरुथ । (उ०पु० ) करोमि, कुर्वः, कुर्मः । यथा - वक्रां करोत्यनिमिषः पदवीं यियासोः' इति वि०मा० । 'खगौ सितेज्यौ कुरुतो नृपालम् । इति ग्रं० का० । 'लग्ने दिवाकरविधुन्तुदमन्दभौमाः कुर्वन्ति राज्ययजमानविनाशनं च।' इति वि०मा० । लोटि - ( प्र०पु० ) करोतु कुरुतात्। कुरुताम् । कुर्वन्तु । ( म०पु० ) कुरु कुरुतात् । कुरुतम् । कुरुत । ( उ०पु० ) करवाणि, करवाव करवाम । वि०लि० - कुर्यात् कुर्याताम् कुर्युः । यथा - अत्याज्यनामनि सशूर्पघटे विचापे 'कुर्यात् ' इति वि०मा० । 'कुर्यातां' गुरुशशिनौ स्वगौ ससौम्यौ' इति ग्रं० का० । 'कुर्युः स ते मिथुनं गृहोदयगतान्' इति बृ०जा० ।
आत्मनेपदे
लटि – कुरुते, कुर्वाते, कुर्वते । वि०लि० – कुर्वीत, कुर्वीयाताम्, कुर्वीरन्।
यथा- - ' शुभेक्षिते चेत्कुरुते गिरं चिरात्' इ० बृ०जा० । 'दुरधारा विधुरां कुरुते वधूम् इ०वि०वृ० |
'प्र + डुकृञ्' करणे (करना)। परस्मैपदे -
लटि —-प्रकरोति, प्रकुरुत:, प्रकुर्वन्ति । वि०लि० - प्रकुर्यात्, प्रकुर्याताम् प्रकुर्युः । यथा - 'सिद्धं च सिद्धा प्रकरोति पुंसाम् । इजि ज्यो० सा० ।
आत्मनेपदे
लटि – प्रकुरुते, प्रकुर्वाते, प्रकुर्वते । वि०लि० – प्रकुर्वीत, प्रकुर्वीताम् प्रकुर्वीरन् । यथा—
-
पित्तं प्रकुर्वीत रविर्विलग्नग' इ० ग्रं० का ० । कर्मर्त्तृके-लटि - क्रियते, क्रियेते, क्रियन्ते । यथाक्रियते काशिनाथेन शीघ्रबोधाय संग्रहः । इति शीघ्रबोधे १|१|
'णिजि' – परस्मैपदे
लटि - कारयति, कारयतः, कारयन्ति । वि०लि० - कारयेत्, कारयेताम् कारयेयुः । आत्मनेपदे
लटि—कारयते, कारयेते, कारयन्ते । वि०लि० - कारयेत, कारयेयाताम्, कारयेरन्।
For Private and Personal Use Only