________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
धातुसर्गः
१७७
लटि - बिभर्ति, बिभृतः, बिभ्रति। वि०लि० - बिभृयात्, बिभृयाताम्, बिभृयुः ।
यथा-' - 'स्वस्वभङ्गिभृतवोऽपि बिभ्रति' इ०वि०वृ० |
(स० ) ।
Acharya Shri Kailassagarsuri Gyanmandir
आत्मनेपदे
लटि - बिभृते, बिभ्राते, बिभ्रते। वि०लि० - बिभ्रीत बिभीयाताम्, बिभ्रीरन् । 'डु धाञ्' धारणपोषणयो: ( धारण करना, पालन करना | ) ( जुहोत्यादौ ) – परस्मैपदे
लटि - दधाति, धत्तः, दधति । वि०लि० - दध्यात्, दध्याताम्, दध्युः । यथा— 'नरा नार्य्योराज्यंदधतिपदपाणिप्रणयिभिः इति वि०वृ० । 'वस्त्राणिदध्युर्मृगदात्रपुष्ये' इति ग्रं०का० ।
आत्मनेपदे
लटि - धत्ते, दधाते, दधते। वि०लि०-दधीत, दधीयाताम्, दधीरन् ।
अत्र विशेष: - * विपूर्वो धा' करोत्यर्थे ह्यभिपूर्वस्तु भाषणे । मेलने चापि सम्पूर्वो निपूर्वः स्थापने मतः ॥ इति । तेन - 'वि धाञ्' (करना)। (जुहोत्यादौ) परस्मैपदे
+
(स० ) ।
लटि - विदधाति, विधत्तः, विदधति । वि०लि० - विदध्यात्, विदध्याताम्, विदध्युः । यथा - 'स नियतं विदधाति वधूवरम्' इति वि०वृ० । 'विधत्तोऽर्थगौ वित्तहानिं महीजपतङ्गौ यदा' इति। 'काव्येन्द्विज्या विदधति वित्तं वित्तस्था:' इति च ग्रं० का ० । 'प्राङ्मध्यमे चलफलस्य दलं विदध्यात्' इति ग्रहलाघवे ३ | 'विदध्यातां खस्थौ सुरगुरुकवी स्वं नृपतितः' इति । 'विदध्यु: र्भविच्चन्द्रजीवा नृपालं ख्याताः इति च ग्रं० का० । लुटिविधास्यति, विधास्यतः, विधास्यन्ति । लोटि - विदधातु, विधत्तात् विधत्ताम्, विदधतु ।
* उपसर्ग: (पुं०) क्रियायोगे प्र-परादयः । ते यथा - प्र, परा, अप, सम्, अनु, अव, निर, निस्, दुर, दुस्, वि, आङ्, नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप। एते द्वाविंशतिः प्रादयः ।
अत्र विशेष उक्तः शब्दार्थचिन्तामणौ - १-३९४७ यथा - निपाताश्चादयो ज्ञेया उपसर्गास्तु प्रादयः। द्योतकत्वात् क्रियायोगे लोकादवगता इमे ॥ ते त्रिधा - धात्वर्थं वाधते कश्चित् यथा— आदत्ते । 'कश्चित्तमनुवर्त्तते' - यथा - - प्रसूते। तमेव विशिनष्ट्यन्यः' यथा— प्रणमति । 'उपसर्गगतिस्त्रिधा ।। अपि च--' -'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत्॥ इति ।
अन्यत्रापि — 'एकः क्वचिद्भजेद् धातुरुपसर्गवशात्तथा । यथा कुम्भात्क्षरत्यम्भो, मदं क्षरति कुञ्जरः । जयतीश्वर उत्कर्षे' जयत्यभिभवे रिपुम्। 'निखिलं वेत्ति गोविन्दः' संवित्ते माधवो यथा ।। 'वृन्दावने वसत्यस्मिन् हरिरावसति व्रजम् । धात्वर्थं धावते कश्चित्कश्चित्तमनुवर्तते।
तमेव विशिनष्ट्यन्योऽनर्थकोऽन्यः प्रयुज्यते । इत्याख्यातचन्द्रिका। कां० ३ श्लो०७७/७८/ ७९/८० । ' धातूपसर्गयाः कार्यमन्तरङ्गम्' अन्यदवहिरङ्गम्।
For Private and Personal Use Only