________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८
ज्योतिर्विज्ञानशब्दकोषः व्रजन् (त्रि०) व्रजतिस्म। यथा-'मिहिरजन्मनि ना मकरोदये व्रजति राजगुरुज्ञरसाभवैः।' इ०ज्यो०भ०। सन् (त्रि०) अस्ति स्म। यथा-'मनसिजे सति सौम्ययुते कुजे' इ० ग्रं० का। अथेदानीं प्रकीर्णशब्दोदाहरणानिअनुरुगः (त्रि०) निम्नादिभादिगतः। अनुरुगो: गुरुरङ्गजसौख्यहा' इ० ग्र० का० । गुरुगः (त्रि०) उच्चादिभादिगत:। यथा-'सुखं जनन्यागुरुग: कलापो युक्तेक्षित: सत्खचरैः करोति। इ० ग्रं०का०।
समभगः (त्रि०) समराशिगतः। यथा-'समभगौ सबुधौ गुरुभास्करौ' इ०प्र०का०। ॥ इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना
डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे दृष्ट्यादिवर्ग: द्वादशोः ॥१२॥
*अथ धातुवर्गः-१३ 'सम् + ख्या' -गणने (गिनना)। (चुरादौ) आत्मनेपदे- (स०)।
लटि-संख्यायते, संख्यायेते, संख्यायन्ते। विधिलिङि-संख्यायेत, संख्यायेयाताम्, संख्यायेरन्। यथा-भास्वच्छुक्रज्ञेन्दुसौय्यौर्यभौमाः संख्यायेरन् वारतस्ते तदंशाः।' इति विवाहवृन्दावने।
(अदादौ) परस्मैपदे-(स०) लोटि-(प्र०) संख्यातु, संख्यातात्, संख्याताम्, संख्यान्तु। (प) संख्याहि संख्यातात्। संख्यातम्। संख्यात। (उ०) संख्यानि, संख्याव, संख्यामा यथा-'क्रमोत्क्रमादुत्क्रमत: शराङ्कान् संख्याहि' इति ग्रं० ला०। 'गण' संख्याने (गिनना)। (चुरादौ) आत्मनेपदे-(स०)।
* इह धातुवर्ग प्राक चिन्तनीयविषया:-तत्रादौ दश लकाराः प्रदर्श्यन्ते-(१) लट्, (२) लिट्, (३) लुट्, (४) लट्, (५) लेट, (६) लोट्, (७) लङ्, (८) लिङ् (९) लुङ्, (१०) लङ् इति एषु पञ्चमो लकारः (लेट) छन्दोमात्रगोचरः। लिङो द्वौ भेदौ स्तः। (१) विधिलिङ् (२) आशीर्लिङ्, इति। अथ तिबादि प्रत्ययाः-(१) तिप्, (२) तस्, (३) झि, (४) सिप, (५) थस्, (६) थ, (७) मिप्, (८) वस्, (९) मस्, (१०) त, (११) आताम्, (१२) झ, (१३) थास्, (१४) आथाम्, (१५) ध्वम्, (१६) इड्, (१७) वहि, (१८) महिङ्। एतेऽष्टादश लादेशा: प्रत्ययाः स्युः। तेषु तिबादयो नवप्रत्ययाः परस्मैपदे, एवं तादयो नवप्रत्यया आत्मनेपदे स्युः। अत्र पदभेदा:-(१) परस्मैपदम्, (२) आत्मनेपदम्, (३) उभयपदं, चेति त्रीणिपदानि स्युः। तिङां त्रयाणामेकपुरुषः। एवं एकपुरुषस्य त्रीणि वचनानि। पुरुषभेदा:-(१) प्रथमपुरुष:, (२) मध्यमपुरुषः, (३) उत्तमपुरुष श्चेति त्रय:पुरुषाः। वचनभेदा:
(शेष पृष्ठ १६९ पर)
For Private and Personal Use Only