________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६७
दृष्ट्यादिसर्गः अथवा- 'सोजें भौमे गतवति निजं तुङ्गमर्केन्दुगौरैः'। प्राप्तवान् (त्रि०) इतवान्। यथा ‘प्राप्त्यालयं प्राप्तवति प्रभाकरे' इ० च० ग्रं०। यातवान् (त्रि०) गतवान्। यथा- 'यमानुजे यातवति क्षयालयम्' इ० ग्र०का०। स्थितवान् (त्रि०) गतवान्। यथा-'स्थितवति द्रविणे दनुजार्चिते' इ०ग्रं० का। अथ सम्प्रति शानचकानचप्रत्ययान्तशब्दोदाहरणानि-- ईक्ष्यमाण: (त्रि०) वीक्ष्यमाण:।। यथा-'बली य एषांतनमीक्ष्यमाणः' इ० नी०कं०। अथवा---'भव्यान्विते वाऽङ्गिर ईक्ष्यमाणे' इ० ग्रं०। वर्तमानः (त्रि०) विद्यमानः, स्थित:, उपस्थितः, तत्कालवृत्तम्। वर्तते। यथा-'गीर्वाणेश्वरवन्दिते कलिरभेऽङ्गे वर्तमाने समे' समे सचन्द्रे इत्यर्थः। इ० ग्र०का०। विद्यमानः (त्रि०) वर्तमान:, विद्यते। यथा-'विद्यमान उदये विदि सेन्दौ' इ०ग्र०का०।
विराजमानः (त्रि०) शोभमान: विराजते। यथा-'विराजमाने गवि राजनन्दने सराज्यनाथे यदि राजलोकिते।' इ०० का०।
विलोक्यमानः (त्रि०) आलोक्यमानः। यथा-'विलोक्यमानेऽसृजि विग्रहे विदा'। वीक्ष्यमाण: (त्रि०) ईक्ष्यमाण: ईक्षते। यथा-'अर्काराभ्यां वीक्ष्यमाणेऽनुजेज्ञे'। शोभमान: (त्रि०) विराजमान:, शोभते। यथा-'स्वे सामरेज्ये विदि शोभमाने' इ०० का०। समीक्ष्यमाणः (त्रि०) वीक्ष्यमाण: समीक्षते। यथा-'समीक्ष्यमाणे विधिपे विवस्वता'। अथेदानीं शत्प्रत्ययान्तशब्दोदाहरणानिअधितिष्ठन् (त्रि०) अधितिष्ठतिस्म। यथा-'शीतगावधितिष्ठति तीर्थगृहे' इ००का०। गच्छन् (त्रि०) गच्छतिस्म। यथा-'कण्ठीरवे गच्छति कर्मसाक्षिणि'। चरन् (त्रि०) चरतिस्म। यथा-'हस्तादीनि चरन् षडक्षाणि' बुध इति शेषः' इति बृहत्संहितायाम्। चलन् (त्रि०) चलतिस्म। यथा-'चलन् बुधो हस्तहयेन्दुभानि' इ०ग्रं०का०। पश्चन् (त्रि०) पश्यतिस्म। यथा-'पश्यन्तौ जनननीगृहं जनकगौ कल्याणमित्राधिपौ' इ००का०। प्रवसन् (त्रि०) प्रवसतिस्म। यथा-'छिद्रे सौम्ये प्रवसति यदा त्वष्टमे ग्लौर्यदि स्यात्।' इ०बृ० जा०। अथवा-'पाताले पुत्रभे वा प्रवसति तपने सोडुपे सौरिदृष्टे' इ००का०। भवन् (त्रि०) भवतिस्मा यथा-'राज्यागारे भवति भवपे भानवेन प्रदृष्टे' इति। विलोकयन् (त्रि०) विलोकयतिस्म।
यथा-'विलोकयन् वाक्पतिमङ्गगेहगं गौरांशुना कं कुरुतेऽङ्गिनां तदा।' इ०प्र०का०। १२ ज्यो.वि.शब्दकोष
For Private and Personal Use Only