________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६
ज्योतिर्विज्ञानशब्दकोषः अथवा---'दिग्घ्नोद्विधा दिनगणोऽङ्ककुभिस्त्रिशैलैभक्तः फलांशककलाविवरं कुज: स्यात्।' इ० ग्र०ला०।१ अथाधुना त्यक्त्वावययवाचकशब्दोदाहरणानिअप (अ०) वर्जनम्, विना। यथा-'अपजूकचरोदये' इति। तुलारहिते चरलग्न इत्यर्थः इति ज्यो०भ०। अथवा-अपमनोभवकण्टकचित्तपः पतय एकगृह इति। अपकुसुमशरकेन्द्रे कोणभे केशितद्वत्।' इति च ग्रं०का०। अपहाय (अ०) विहाय। यथा-'अपहाय तनुं विषमर्क्षगतो रविजोऽपि नृजन्मकर: कथितः।' इ००का०। अपास्य (अ०) वर्जयित्वा। यथा-अपास्य पश्यन्निजदृश्यखेटात्' इति नीलकण्ठ्याम्। त्यक्त्वा (अ०), अपास्या त्यक्त्वाऽन्त्याद्विषमात्कृति द्विगुणयेन्मूलम्' इति ली०व०। प्रोज्झ्य, वर्जयित्वा। यथा--ज्यां प्रोज्झ्य शेषं तत्त्वाश्विहतम्' इ०सू०सि०। अथवा--'सूर्योच्छिन्नधुतिषु च दलं प्रोजझ्य शुक्रार्कपुत्रौः' इ०बृ०जा०। वर्जयित्वा (अ०) हित्वा। यथा-'अङ्गारकं वर्जयित्वा शत्रुक्षेत्रगतेग्रहे।' इति बृहत्पाराशर्यांम्। अथवा— क्षोणीपुत्रं वर्जयित्वा रिपुस्था' इ० जा०पा०। विना (अ०) हित्वा। यथा-'विना सितार्की यदि हानियुग्मे' इति पद्धतिकल्पवल्यमा। अथवा-विना वक्रगम्' इ०जा०प०। विहाय (अ०) अपहाय। यथा-विहाय लग्नं विषमर्भसंस्थ: सौरोऽपि, इ०बृ०जा०। सन्त्यज्य (अ०) परित्यज्य। यथा-'संत्यज्य मैत्रं रविवासरे विधौ' इ००का०। हित्वा (अ०) विहाय। यथा-'हित्वाऽर्क सुनफाऽनफादुरुधरा' इ०बृ०जा०। अथवा–हित्वा मृगेन्द्रं नरराशिवश्या' इ०म०चिं०। 'अथ साम्प्रतं 'क्तवतु' प्रत्यायान्तशब्दोदाहरणानि
आश्रितवान् (त्रि०) स्थितवान्। यथा-'मृदुमङ्गलशीतगुवित्सु चाश्रितवत्सु तनूजनिकेते' इ००का०। इतवान् (त्रि०) प्राप्तवान्। यथा-'इतवति क्रियभे कलशाधिपे' इ० ग्र०का०। गतवान् (त्रि०) यातवान्। यथा-गतवत्सु निकेतने क्वचित्क्षितिभूदानवपूज्यकेतुषु। मिथ ईक्षणकर्तृषु क्षमापतिलक्ष्मा' इ०ज्यो०भ०।
For Private and Personal Use Only