________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दृष्ट्यादिसर्गः
१६५ विना (अ०) हिरुक्। यथा-व्याप्ता अस्तमिते विना शनिसितौ' इ०जा०पा०। हिरुक् (अ०) विना। यथा-'हेलिं हिरुग् हिमकराद् द्रविणे व्यये च'। अथ साम्प्रतं वर्जितवाचकशब्दोदाहरणानिउज्झित: (त्रि०) वर्जितः। यथा-'अथो, बलोज्झिते लोचनपे त्रिके वा'। ऊन: (त्रि०) हीनः। यथा- कोलेक्षिते तद्गृहहेतुनाऽथोंनो दुःख तप्तः'। ऊनित (त्रि०) वर्जितः। यथा-'वीयोनिते भवधवे' इ० ग्र०कां। च्युत: (त्रि०) रहितः। यथा-नीचोनो भगणच्चयुत: षडधिकश्चेत्षहृदौच्चं बलम्' इ०जा०प०। अथवा-'स्वोच्चोनितो दिविचरो रसभात्प्रपुष्टश्चक्राच्च्युतः कृतलव: खपुराणभक्तः।' इति
मुकुन्दपद्धतौ।
मुक्तम् (त्रि०) रहितम्। यथा-'नीचारिपापगगनटनदृष्टिमुक्ते' इ०जा०पा०। वर्जित: (त्रि०) रहित:, परित्यक्तः। यथा-दष्ट्रा वर्जितदृश्यकस्य गुरुणा' इ०जा०प०। वर्य: (त्रि०) वर्जनीयः। यथा-'योधाप्तिवय॑मितरान् क्षपयन्ति भावान् पापा:' इ०वि०मा०।
वि (अ०) विगतः। यथा--'सहजपापनिरीक्षितचन्द्रमा विशुभदृग् जननी-मरणप्रदः।' इत्यु०भा०। विमुक्तः (त्रि०) रहितः। यथा-'दक्षाक्षिकाणोऽमलदृग्विमुक्ते' इ००का०। वियुक्त: (त्रि०) वियुतः। यथा-'भज्ञेन्दुवागीशदृशा वियुक्ते' इ००का०। वियुत: (त्रि०) वियुक्तः। यथा-'अथो सोग्रे सोमे व्यय उदयपे वीर्यवियुते'। विवर्जित: (त्रि०) विरहितः। यथा-'सद्धीनमभ्रस्थलं माहेयेन विवर्जितं यदि तदा' इ. ग्रं०का। विशेष्यम् (त्रि०) विश्लेष्यम्। यथा-'दोस्त्रिभोनं, त्रिभो विशेष्यं रसैः' इ०ग्र०ला०२/१ विश्लेष्यम् (त्रि०) विशेष्यम्। यथा-'रात्रेः शेषमितं युतं दिनदलेनाऽहोगतं शेषकं। विश्लेष्यं खलु पूर्वपश्चिमनतम्' इति जा०प०१/२ वीत: (त्रि०) विरहितः। यथा-'खाङ्गार्थहितपाः। त्रिकेऽस्ते वीतोर्जा:' 'वीतोर्जा बलविरहिता इत्यर्थः। इ००। अथेदानीमन्तरवाचकशब्दोदाहरणानिअन्तरम् (न०) शोध्यशोधकयोरवशिष्टम्, वैशेष्यम्। यथा-'वृत्तस्य मध्यं किल केन्द्रमुक्तं केन्द्रं ग्रहोच्चान्तरमुच्यतेऽतः। यतोऽन्तरे तावति तुङ्गदेशान्नीचोच्चवृत्तस्य सदैव केन्द्रम्।।' इ०सि०शि०। विवरम् (न०) अन्तरम्। यथा-'ज्यां प्रोज्झ्य शेषं तत्त्वाश्विहतं तद्विवरोद्धृतम्' इ०सू०सि०।
For Private and Personal Use Only