________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
ज्योतिर्विज्ञानशब्दकोषः वीक्षणसमागमः (पुं०) ईक्षान्वयः। यथा-'सौम्यवीक्षणसमागमसत्वे' इ० जे०प०। अथ सम्प्रति दृष्ट्वा वाचकाव्ययशब्दोदाहरणानिअवेक्ष्य (अ०) आलोक्य। यथा-'विधोर्बलमवेक्ष्य वा दलनकण्डकं गृहाङ्गणम्' इ०म०चिं०। आलोक्य (अ०) दृष्ट्वा। यथा-'आलोक्य वक्रो नृविलग्नगं शनि शिशोः श्मशाने जननं करोति हि।' इ००का। दृष्ट्वा (अ०) विलोक्य। यथा-'दृष्ट्वोदयस्थं दनुजार्चितं मरुन्मंत्री विधत्ते विगदं विशं यदि।' इ००का०। प्रेक्ष्य (अ०) दृष्ट्वा। यथा-'नृलग्नगं प्रेक्ष्य कुज: श्मशाने' मन्दमित्यनुवर्तते। इ००जा। विलोक्य (अ०) आलोक्य। यथा-'तत्रारिष्टं तथा चेष्टं विलोक्य प्रबलं वदेत्' इ० श्लो०श०। सन्दृश्य (अ०) दृष्ट्वा। यथा-'सन्दृश्य काव्यं स्मरगं सुरेज्य: करोति लब्धिं द्रुतमङ्गनायाः।' इ०ग्रं०का०। समीक्ष्य (अ०) आलोक्य। यथा-'निधानगो विधीश्वरः स्वकीयमन्दिरं यदा। समीक्ष्य मानवेश्वरं करोति' इ०ग्र०का ०। अथाधुना मध्यपर्यायोदाहरणानिअन्त: (र) (अ०) मध्यः। यथा-अन्तः शशिन्यशुभयोगगे पतङ्गे' इति बृ०जा०। अन्तरम् (न०) मध्यः। यथा-'सदन्तरे व्योम्नि सुधाकरान्विते' इ०ग्रं०। अन्तरा (अ०) मध्यः। यथा-'अन्तराऽसृजि सौम्यखेटयोः' इ०० का०॥ अन्तरालम् (न०) अभ्यन्तरम्। यथा-'किंवार्कचन्द्रावसदन्तराले' इ००का०। अन्तरालकम् (न०) अभ्यन्तरम्। यथा-'सदन्तरालके तुषाररोचिषि' इ००का०। अभ्यन्तरम् (न०) अन्तरालम्। यथा-अभ्यन्तरे कल्मषखेटयोः कलेट् इति ग्रं. का। मध्यः (पुं० न०) अन्तरम्। यथा-'मध्येऽसतां पुष्करवासिनां शशी' इ० ग्रं०का। अथाधुना मध्यगतपर्यायोदाहरणानिअन्तरगत: (त्रि०) मध्यगत:। यथा-'शुक्रः खलान्तरगत: सखल: सिताद्वा' इति। अथवा-'अंशे शुभान्तरगते भवपे' इ००का०। अन्तर्गत: (त्रि०) मध्यगतः। यथा-'अन्तर्गते शोभनयो शशांके' इ. ग्रं. का.। मध्यग: (त्रि०) अन्तर्गतः। यथा-'चतुष्टयेऽथो शुभमध्यगेऽब्जे' इ० ०का०। मध्यगत: (त्रि०) गध्ययातः। यथा-'सौम्यमध्यगतेऽथवा' 'शुभयोरन्तर्गत' इत्यर्थ: जा०पा०। मध्ययातः (वि०) मध्यगतः। यथा-'लाभालये तदधिपेऽमलमध्ययाते' इ० ग्रं०। अथेदानीं विनार्थवाचकाव्ययशब्दोदाहरणानिअन्तरेण (अ०) विना। यथा-'शुभदृष्टिमन्तरेण' 'शुभदृष्टिं विनेत्यर्थः। जै०प०। ऋते (अ०) विना। यथा-'पापाभ्रसद्योगमृतेऽमृताशौ' इ. ग्र०का०।
For Private and Personal Use Only