________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दृष्ट्यादिसर्गः
परिलोकित: (त्रि०) दृष्टः । यथा - 'विधौ विधिस्थे परिलोकिते विदा' इ०ग्र० । परीक्षितः (त्रि०) दृष्टः। यथा - ' कलेवरेशे कलुषैः परीक्षिते' इ०ग्रं० का ० । प्रदृष्टः (त्रि०) प्रेक्षितः । यथा - 'खलैः प्रदृष्टे खलराशियाते' इ० ग्रं० का ० । प्रेक्षित: (त्रि०) दृष्ट: । यथा - 'विवस्वता प्रेक्षित ऋक्षनाथे' इ० ग्रं० का ० । प्रोद्वीक्षित: (त्रि०) दृष्ट: । यथा - 'प्रोद्वीक्षिते पङ्कजिनीप्रियेण' इ०ग्र० का ० ।
लोकित: (त्रि०) ईक्षितः। यथा- 'चित्तोत्थस्थे बुधगुरुविधुभिलोकिते लोकबन्धौ' इ० ग्रं० का ० । विलोकित: (त्रि०) अवलोकितः । यथा- 'कल्याणकायभवनेशविलोकितौ वा' इ०ग्रं० | संवीक्षितः (त्रि०) समीक्षितः ।
अथ साम्प्रतं यतीक्षणवाचकशब्दोदाहरणनि
ईक्षान्वयवान् (मतुबन्तः) (त्रि०) दृग्योगवान् ।
यथा- 'मान्दौ वेश्मस्थे तत्पतीक्षान्वयवति' इ० प्र० । दर्शनयोग: (पुं०) दृष्टियोगः ।
यथा - 'मन्दराहुकृतदर्शनयोगे' इति ।
यथा- 'संवीक्षितेऽखिलदृशा यदि लोकबन्धौ लोकम्पृणेन वृषगेण सभार्गवेण । इ०ग्र० । सन्दृष्टः (त्रि०) अवलोकितः । यथा- 'सन्दृष्टौ हरपतिना हरी हरिस्थौ' इ०ग्रं० । समालोकित: (त्रि०) दृष्टः । यथा - 'समालोकिते सौरिणा सौख्यभावे' इ० ग्रं० । समीक्षितः (त्रि०) समालोकितः । यथा - 'सतां गृहे शुभग्रहैः समन्विते समीक्षिते' इति । अथाधुना दृष्टिदृष्टवाचकप्रकीर्णशब्दोदाहरणानि -
प. ।
दत्तनेत्र: (त्रि०) दत्तदृष्टिः । यथा - 'सुतालयदत्तनेत्र: ' इ. जै. दृष्टदेह: ( त्रि०) दृष्टमूर्ति: । यथा - 'रविदृष्टदेह:' इ० जै०प०। दृष्टमूर्ति: ( त्रि०) दृष्टशरीरः ।
यथा-'
- 'बृहस्पतिर्भीमगृहेऽष्टमस्थः सूर्येन्दुभौमार्कजदृष्टमूर्तिः । इ०स०चिं० । दृष्टशरीर : (त्रि०) दृष्टदेहः ।
यथा - 'प्रश्नतनोर्यदि पापनभोगः पञ्चमगो रिपुदृष्टशरीरः । इ०मु०चिं० । दृष्टिघटित : (त्रि०) ईक्षणघटितः । यथा-': - 'शुक्रदृष्टिघटिते रसवादी' इ०जै०प० । दृष्टिशुद्ध: (त्रि०) दृक्शुद्धः । यथा - 'हृतदृष्टिशुद्धः । ' पापदृष्टिरहित इत्यर्थः । इ०जै०प० । प्रेक्षणता (स्त्री०) वीक्षणता । यथा - 'कलानिधिप्रेक्षणतां प्रयाते' इ० जै०प० ।
प्रेक्षणत्वम् (न०) वीक्षणत्वम् । यथा - ' छायापुत्रप्रेक्षणत्वं प्रयात:' इ०जै०प० ।
युतिदृक (श्) (स्त्री०) योगदर्शनम् ।
यथा - 'विमलयुतिदृशा' सद्योगदृष्ट्या इत्यर्थः । इति । युतिवीक्षणम् (न०) योगदृक । यथा-'अर्कजीवयुतिवीक्षणसत्त्वे' इति च जै०प० । युतीक्षणम् (न०) योगवीक्षणम् । यथा-'सौख्यालये सौम्ययुतीक्षणे यदि इ० ग्रं० ।
-
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१६३