________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
ज्योतिर्विज्ञानशब्दकोषः तत्रैव-ससौम्यराज्यश्च सभास्वदाय: सपूज्यकेन्द्र: ससितोदयश्चेत्' इति ज्यो०भ०। ‘सराजमंत्री कुलमानवर्ती सहसभूमङ्गललाभभाव:' इति. ज्यो०भ:०। 'झषविशेषभुजा सयमासृजा' इति. ज्यो. भ०। 'करिकरेऽसृजि पूष्णि सलेयभे' इति०ज्यो०भ०।
'सवित्कविरिहाहवयानकाले इति ज्यो० भ०। 'सविदि भीरुघने कविमानगे' इति च ज्यो०भ०।
अथवा-'सरस्वतीशे ससरस्वतीशे' इ० ग्रं०का। अथाधुना दृष्टिपर्यायोदाहरणानिआलोकः (पुं०) दर्शनम्। यथा-'निशाकरालोकगतेऽस्तगे रवौ' इति। आलोकनम् (नं०) ईक्षणम्। यथा-'ज्ञालोकनाप्ते विधिगे क्षपाकरे' इति। आलोचनम् (न०) दर्शनम्। यथा-'भालोचनेतेऽस्तगते महीसुते।' इति। ईक्षणम् (न०) दृष्टिः। यथा-'मन्देक्षणेन सहिते मदनमन्दिरे नुः' इति। ईक्षा (स्त्री०) दृक्। यथा-'ईक्षागुरोर्बलवती कथिताऽतिशस्ता नो सा शुभा भवति भास्करनन्दनस्य।' इ०ग्र०। दर्शनम् (न०) दृष्टिः। यथा-'सहोदरे भास्करिदर्शनान्विते' इति। दृक् (श्) (स्त्री०) ईक्षा। यथा-‘पञ्चत्वगेहे पविपाणिपूज्ये दृशासमेते बलिवन्दितस्य।' इति। दृशिः (स्त्री)) दृष्टिः। यथा-'शशाङ्कदृश्या सहिते स्वगे शनौ' इति। दृष्टिः (स्त्री०) दर्शनम्। यथा-'भार्यानिकेतं भृगुदृष्टियुक्तं नरस्य पाणिग्रहणंत्ववश्यम् इति। द्योतनम् (न०) वीक्षणम्।। यथा-दिवाकरद्योतनगेऽर्थभेगरौ' इति। निध्यानम् (न०) दर्शनम्। यथा-महीजनिध्यानमितेऽस्तभावे' इति। निभालनम् (न०) वीक्षणम्। यथा-स्मरे कुजे काव्यनिभालनंगते' इति। निवर्णनम् (न०) दृष्टिः। यथा-'निर्वर्णनेते धिषणस्य भार्गवे' इति। निशमनम् (न०) दृक्। यथा-'कल्याणे सकवौ गुरोर्निशमनं याते महीनन्दने' इति। निशामनम् (न०) दृष्टिः। यथा-'सूरेर्निशामनमिते तनये तमीशे' इति च ग्रं०का०। अथेदानीं दृष्टपर्यायोदाहरणनिअवलोकित: (त्रि०) ईक्षितः। यथा-'खस्थे हिमांशाववलोकितेऽहिना' इं ग्रं०। आलोकित: (त्रि०) दृष्टः।। यथा-'आलोकितेऽखिलखमैर्जननोदये नुः' इ००। ईक्षित: (त्रि०) विलोकितः। यथा-'यदि हरी हरिगौ शुभदेक्षितौ' इ००का०। निरीक्षित: (त्रि०) दृष्टः। यथा-'षष्ठीशने निरीक्षिते सुतवती जारेण संजायते' इ०जा०पा०।
For Private and Personal Use Only