________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दृष्ट्यादिसर्गः
१६१ आलम्बी (इन्) (त्रि०), आश्रयी। आलम्बितुं शीलमस्यास्ति इति णिनिः। यथा- 'धनधाम्नि निजोच्चराशिगद्युचरालम्बिनि' इ००प०। गामी (इन्) (त्रि०), गमनशीलः। 'गम्ल' गतौ। 'सुप्यजातौ णिनिस्ताच्छील्ये' इत्यनेन णिनिः। यथा-'कलशगामिनि पङ्कजिनीपितौ' इ०जा०भ०। अथवा- 'युवतिगामिनि शीतलरोचिषि' इ० न०का०।
चारी (इन्) (त्रि०), चरणशीलः। 'चर' गतिभक्षणयोः 'सुप्पजातौणिनिस्ताच्छील्ये' इत्यनेन णिनिः।
यथा-'प्रथमभवनचारी मृत्युभावाधिकारी' इ०ग्रं० अं०। अथवा-‘चण्डांशुमाली मृतिभावचारी' इ० ग्रं०का०। निवासी (इन्) (त्रि०), निवसनशील:। निवसति तच्छील:। वस०णिनिः। यथा-'मेदिनीतनयभागनिवासी' इ००अं०। अथवा-'अथ निवासिनि सोमगृहांशके' इ० ग्रं०का०। वर्ती (इन्) (त्रि०), वर्तिष्णुः। वर्तनशीलः। 'अलङ्कत्रिति 'इष्णुच्'। यथा-'सराजमंत्री कुलमानवर्ती सहसभूमङ्गललाभभावः।' इति। अथवा-'कलशवर्तिनि योऽशुभुवि व्रजेत्। इति च ज्यो०भ०। अथवा-'काये सकाव्ये वृषवर्तिनीन्दौ' इ० ग्र०का०।
वासी (इन्) (त्रि०), वसनशीलः। ‘क्स' निवासे। 'सुप्यजातौ णिनिस्ताज्छील्ये' इत्यनेन णिनिः।
यथा-'वधूभवासिनि क्षपाधिनायके' इ० ग्रं०का०।।
शाली (इन्) (त्रि०), शोभायमानः शालते। 'शाल' कत्थने। ताच्छील्ये णिनिः पदान्ते युक्तवाचकोऽयम्।
यथा-'सूतस्थानपाली रिपुस्थानशाली' इ० ग्रं० अं०। अथवा---'कलत्रशाली सकुजः कलाप:' इ०ग्रं०का०। अथेदानीं सहसमासशब्दोदाहरणानिसाधिकार: (त्रि०), अधिकारसहित:। 'अधिकारेण स्वोच्चादिस्वामित्वेन सहितः। 'सहस्य स: संज्ञायाम्' इत्यनेन 'स' इत्यस्य पूर्वनिपातः। यथा-सहोदरे भास्वति साधिकारे इति। 'तुङ्गादिवर्ग किमु साधिकारे वित्तेऽर्चिते' इति च ग्रं०का०। सघन: (पुं०), घनेन लग्नेन सहितः। समदः (पुं०), मदेन सप्तमेन सहितः। ससुख: (पुं०) सुखेन चतुर्थेन सहितः। यथा-'सघन: कविसूनुरुद्गमे समदो राजसुतो यदातदा। ससुखो गुरुरालयाश्रयात्' इति ज्यो० भ०।
For Private and Personal Use Only