________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०
ज्योतिर्विज्ञानशब्दकोषः अथवा-'भानुजन्मनि मृगोदयभाजि इ० ग्रं०का०। यायी (इन्) (त्रि०), १ यात:, २ संग्रामे अग्रगामी आक्रमणकारी। यथा-काव्यः पातालयायी' इ० जा०लं०। अथवा--'मदनपति नयायी' इ० जै०प०। 'राहुवक्त्रे स्थिते सूर्ये चन्द्रे हृदयसंस्थिते। यायिनो विजयस्तत्र' इ० न० ज०। युक् (ज्) (त्रि०), योग:। 'युजिर्' योगे। 'ऋत्विग्दधृक्स्रगित्यादिना क्विन्' 'मत्वर्थीयः।' यथा-'आरयुजि व्यये इति। 'वागधीशयुजिव्यये इ० जै०प०। अथवा—'अन्त्ये गिरीशयुजि विद्युजिभाग्ये' इ०० का०। योगी (इन्) (त्रि०), योगयुक्तः। योगोऽस्यास्ति। अत इनठनावितीनिः। यथा-'तुय्ये रुधिरयोगिनि' इ००प०। अथवा—'मेदिनीतनययोगिनि युग्मे' इ० ग्रं०का०। विहारी (इन्) (त्रि०), विहारकर्ता। मत्त्वर्थीय इनिः। यथा-स्वांशकात्सलिलभे गुरुभृग्वोदृष्टियोगयुजि सौधविहारी। इ०जै०प०। संयोगी (इन्) (त्रि०), संयोगविशिष्टः। यथा- 'संयोगिनीहास्तगृहे भृगोर्जनेः' इ० अं०। संसर्गी (इन्) (त्रि०), संसर्गविशिष्टः, २ सङ्गी ‘मत्वर्थीय इनिः। यथा-'खलसंसर्गिणि भावे' इ० जै०प०। सङ्गी (इन्) (त्रि०), सक्तः, सङ्गविशिष्टः। यथा-'पद्मिनीरमणसङ्गिनि तुर्ये' इति। 'द्वादशेऽर्कशिखिसङ्गिनि। अथवा—'तुयें केतुसङ्गिनि' इति च जै०प०। अथवा-'रोहिणीरमणसङ्गिनि शौर्ये' इति ग्रं०। सम्पर्की (इन्) (त्रि०), सम्पर्कविशिष्टः।। यथा-'सम्पर्किणि नगृहे दिवाविभोः' इ००। सम्बन्धी (इन्) (त्रि०), सम्बन्धविशिष्टः, गुणवान, संयुक्। यथा-‘चन्द्रोविलग्नसम्बन्धी वाहनेशसमन्वितः।' इ०जा०पा०। स्थायी (इन्) (त्रि०), पश्चात्क्षेत्रगामी, पश्चाद्वादकारी, स्थायी पौरसंज्ञो वा राजा। यथा-'राहुवक्त्रे स्थितेसूर्ये चन्द्रे हृदयसंस्थिते। यायिनो विजयस्तत्र स्थायिनो भङ्ग आहवे।' इ०न० ज०। स्पृक् (श्) (त्रि०), संस्पर्शनम्। 'स्पृश' संस्पर्शने। 'स्पर्शोऽनुदके क्विन्' 'मत्वर्थीयः। यथा-'मदनस्पृशि चावनेये' इ०ज्यो०भ०। अथवा–यदा द्वितीयस्पृशि भूकुमारे' इ००का०। अथ सम्प्रति 'णिनि' प्रत्ययान्तशब्दोदाहरणानि
For Private and Personal Use Only