________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिर्विज्ञानशब्दकोषः मृगशीष्णिभम, मृगी, मृगोत्तमाङ्गम, रजनिकृत् (त्), राजभम्, राज्यम्, रुरः, रुरुशिरा: (अस), रुरूत्तमाङ्गम, शशभृत् (त्) शशाङ्कभम्, शशिभम्, शीतद्युतिः, सौम्यम्, शेषपर्यायास्तु चन्द्रमृगमस्तकपर्यायत ऊहनीयाः।
आर्द्रापर्यायाः०-आर्द्रम्, आर्द्रा, ईश:, ऐशम, कालिनी, गिरिश:, चन्द्रशेखरः, त्रिनयन:, त्रिनेत्रक्षम्, पुरजित् (द्), भर्गः, भावम्, राजमौलि:, रुद्रः, रुद्रदैवत्यम्, रौद्रम्, रौद्री, रौद्यम्,
शः, शङ्करः, शिवः, शूलभृत् (द्), शूली (इन्), शैवम्, हरसंज्ञकः, हारम्, हुताशरेता: (अस्) शेषपर्यायास्तु शिवपर्यायत: कल्पनीयाः।
पुनर्वसुपर्याया:-अदितिः, अदितिदैवतम्, अद्री, अमरमाता (तृ), आदितेयम्, आदित्यम्, कश्यपभीरुः, काश्यपी, काश्यपीतारा, त्रिदशेन्द्रसूः, देवप्रसूः, देवमाता (तृ०), देवाम्बिका, पुनर्भम्, पुनर्वसुः, पुनर्वसू, माता (तृ०), मित्रजननी, यामको, सुरसवित्री, सुरसूः, सुराम्बा, सुरजननी, शेषपर्यायास्तु अदितिकश्यप-देव-मातृपर्यायत ऊहनीयाः।
तिष्यपर्यायाः-अङ्गिरा: (अस), अमरेज्य:, अमरेड्यः, आङ्गिरसम्, आर्य:, इज्यः, इन्द्रमन्त्री (इन्), ऐज्यम्, गीष्पति:, गुरुः, गुरुदैवतम्, गुरुदैवत्यम्, गौरवम्, जीव:, जैवम्, तिष्यः, धैषणम्, पुष्यः, पूज्यः, योग्य, वासवार्च्यभम्, सिद्धः, सिध्यः शेषपर्यायास्तु अङ्गिरोगुरुशक्रपर्यायत: कल्पनीयाः। ___ आश्लेषापर्याया:-अश्लेषा, अहिः, आशीविषभम्, आत्रैषा, आश्लेषम्, आश्लेषा,
आश्लेषिका, आह्यम्, उरगः, कद्रुजभम्, कद्रूजः, कुण्डली (इन्), दन्दशूकः, द्विरसनम् नागदेवा, नागदैवतम्, नागदैवत्यम्, फणभृत (द), फणी (इन्), भुजगाधिपः, भुजङ्गः, भौजङ्गम, व्यालः, व्यालराट् (ज), श्लेषा, सर्पदेवा, सर्पदैवतम्, सर्पदैवत्यम्, सर्पोऽघाः, सार्पम्, सापी, शेषपर्यायास्तु सर्पपर्यायत ऊहनीयाः।। ___ मघापर्यायाः-आदिजा: (पु०ब०) आदिप्रभवा: (पु०ब०) आदिभुवः (पु०ब०) कव्यभुक . (ज्), जनकः, पितरः (पु०ब०), पिता (तृ), पितृजनकः, पितृदेवधिष्ण्यम्, पितृदेवा, पितृदैवतम्, पितृदैवत्यम्, पित्र्यम्, पित्र्या, पूर्वजा: (पु०ब०), पैत्रम्, पैत्र्यम्, पौर्वजम्, मखा, मघः, मघा, शेषपर्यायास्तु पितृपर्यायत ऊहनीयाः।
पूर्वाफाल्गुनीपर्याया:--पुफा, पूर्वफल्गुभम्, पूर्वफाल्गुः, पूर्वयोनिः, पूर्वाफाल्गुनी, फाल्गुनी, भगः, भगदेवत्यम्, भागम्, भाग्यम्, भाग्यभम, योनिः, योनिदेवता, योनिदेवा, योनिदैवतम, योनिदैवत्यम्, शेषपर्यायास्तु योनित: कल्पनीयाः।
उत्तराफाल्गुनीपर्यायाः-अदितिसुतः, अर्यमदेवता, अर्यमदेवा, अर्यमदैवतम्, अर्यमदैवत्यम्, अर्यमा (अन्), अर्यम्णम्, आर्यभम्, आर्यम्णम्, उत्तरफल्गुभम्, उत्तरफाल्गुः, उत्तराख्यं, उत्तराफाल्गुनी, मतान्तरे-भगम, शेषपर्यायास्तु अर्यमत: कल्पनीयाः।।
हस्तपर्यायाः-अरुणः, अर्कः, आरुणम्, आर्कम्, ऐनम्, करः, तैक्ष्णकरम्, दिनेशभम्, दो: (ए), पाणिः, बाहुः, भवसुः, भवसूः, भानवम्, भानुः, भानुभम्, भुजः, रविः, रावेयम्, शयः, सवितृदेवता, सवितृदेवा, सवितृदैवतम्, सवितृदैवत्यम्, सावित्रम, हस्तः, हस्ता, शेषपर्यायास्तु हस्तार्कपर्यायत: प्रकल्प्याः । चित्रापर्यायाः-चित्र:, चित्रम्, चित्रा, तक्षा (अन्), त्वष्टा (ष्ट), त्वष्टदेवता, त्वष्टदेवा, त्वष्टदैवतम्, त्वष्ट्दैवत्यम्, त्वाष्ट्रम्, देवरथकारभम्, देवशिल्पिः, देवशिल्पी (इन्), देवसूत्रधारः
For Private and Personal Use Only